पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३४७

पुटमेतत् सुपुष्टितम्
336
अलंकारमणिहारे

रोऽपि । पुण्यजनान् ध्वंसयसे पुराचरित्रं तवैतदतिचित्रम् ॥ ११६५ ॥

 पुण्यजनान् धार्मिकान् संत्रातुं पुण्यजनान् ध्वंसयसे इति विरोधः । यातुधानानिति परिहारः । अत्र 'परित्राणाय साधूनाम्' इति गीतोऽर्थोऽनुसंहितः । अत्र पुण्यजनसंत्राणप्रवृत्तस्य तद्ध्वंसनरूपविरुद्धकार्यकरणं श्लेषतो निबद्धम् ॥

 यथावा--

 द्विषतां विशुशोषयिषुर्जीवनमहिराजगिरीशिखरभास्वन् ! । द्रुतमप्सरस्सु यदिमान्निदधाथाद्भुतमितोऽपि किं जगति ॥ ११६६ ॥

 जीवनं प्राणनं सलिलं च । अप्सरस्सु स्वर्वेश्यासु अपां सरस्सु च । अत्र द्विषतां जीवनशोषणे प्रवृत्तस्य जलसरस्सु निधानरूपं विरुद्धकार्यमुपवर्णितम् । इयमपि श्लेषसंकीर्णैव ॥

 यथावा--

 माधुर्यं प्रचिकटयिषुरिक्ष्वाकुकुलेऽखिलेश्वराविरभूः । प्रथयन् बहुमुखकीर्तिं तामेव तनीयसीं बत व्यतनोः ॥ ११६७ ॥

 माधुर्यं मधुररसवत्त्वं प्रचिकटयिषुस्सन् इक्ष्वाकुकुले कटुतुम्बीनिवहे आविरभूरिति विरोधः सर्वलोकप्रियत्वं प्रकटयितुमिच्छुस्तदनुगुणे इक्ष्वाकुमहाराजान्ववाये आविरासीरिति परिहारः । 'स्वादुप्रियौ तु मधुरौ' इत्यमरः । ‘इक्ष्वाकुः कटुतु-