पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३४९

पुटमेतत् सुपुष्टितम्
338
अलंकारमणिहारे

 हे अब्जनयन! भीष्माः भयानकाः ये द्रोणाः वृश्चिकाः तेषां क्ष्वेडः गरळं तेन । पक्षे भीष्मद्रोणयोः क्ष्वेडाः सिंहनादाः ताभिः आकुलं ‘भीषणे त्रिषु भीष्मस्स्याद्रुद्रगाङ्गेययोस्तु ना । द्रोणः कृपीपतौ काके भेकवृश्चिकयोस्तु ना । क्ष्वेडा वंशशलाकायां सिंहनादेऽपिच स्त्रियाम् । क्ष्वेडो ना पुंसि गरळे' इति च रत्नमाला । पृथासुतानां बलं समाधित्सन् औषधमस्त्रादिना अभयदानादिना च तत्प्रतीकारं विधित्सन् । कृष्णाः नीलवर्णाः आशुगाः शीघ्रगामिनः ये अळयो वृश्चिकविशेषाः ‘अळिद्रोणौ तु वृश्चिके' इत्यमरः । पक्षे कृष्णस्य अर्जुनस्य आशुगानां बाणानां आळिः पङ्क्तिः तत्तोदनं तत्करणकव्यथनं अतनोः । अत्र वृश्चिकक्ष्वेडाकुलतासमाधित्सोः तद्विरुद्धकृष्णवृश्चिककरणकव्यथनमुपवर्णितम् ॥

 यथावा--

 कलुषं जगतां हर्तुं जलजेक्षण! दिव्यरूपमेतदधाः । ललनानां व्रजजनुषां कलुषयसि बतामुनैव हृदयानि ॥ ११७१ ॥

 कलुषं वृजिनम् । अमुनैव दिव्यरूपेणैव कलुषयसि वृजिनवन्ति करोषि । कामाविलनि करोषीति वस्तुस्थितिः । ‘कलुषं क्लीबेंऽहस्याविले त्रिषु' इति रत्नमाला ॥

 यथावा--

 शकलयितुं लोकानां सकलमरिष्टं तवावतारोऽयम् । अमुनैव समेधयसे रमेश! तेषामरिष्टमिति चित्रम् ॥ ११७२ ॥