पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३५२

पुटमेतत् सुपुष्टितम्
341
विषमालङ्कारसरः (४०)

संक्रान्तः । अस्य विपत्त्यपनुत्त्यै त्रस्यन् द्रवसि स्म तव कृपा कियती ॥ ११७४ ॥

 अत्र सर्वलोकेश्वरत्वेन तिर्यग्जन्तुत्वेन चाननुरूपयोर्भगवज्जरद्गजयोर्घटनं वर्णितम् । अधिकरणशक्तिप्रधानाभ्यां क्वेत्यव्ययाभ्यामनुचितघटनत्वमाविष्कृतम् । अत्र संबन्धस्संयोगरूपः ॥

 यथावा--

 जडमूर्धन्यः क्वाहं जगदीश! तवानुभूतिभाग्यं क्व । जम्बुककिशोरकः क्व नु जम्भारिपुरीविभूत्यनुभवः क्व ॥ ११७५ ॥

 अत्राज्ञमूर्धन्यत्वेन दुष्प्रापतममहापुरुषार्थत्वेन चाननुरूपयोर्भक्तभगवदनुभवयोस्संबन्धः । इदमान्ध्रभाषाप्रसिद्धलोकप्रवादानुकृतिलक्षणलोकोक्त्यलंकाररूपदृष्टान्तालंकारसंकीर्णं, पूर्वं तु शुद्धमिति भिदा ॥

 यथावा--

 केनाप्यकम्पनीया महीयसी श्रीश ! तव विभूतिः क्व । फूत्कृतिमात्रविनेया लघीयसी पशुपतेः क्व च विभूतिः ॥ ११७६ ॥

 हे श्रीश ! इदं संबोधनं विवक्षितविभूतेर्महीयस्त्वाद्यभिप्रायगर्भम् । केनापि ब्रह्मणाऽपीति भावः । अकम्पनीया, तव ‘महाविभूतेस्संपूर्णषाड्गुण्यवपुषः प्रभोः' इति महाविभूतित्वेन प्रसिद्धस्येति भावः, महीयसी विभूतिः ऐश्वर्यं क्व, फूत्कृति-