पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३५६

पुटमेतत् सुपुष्टितम्
345
विषमालंकारसरः (४०)

वद्यशसश्चाननुरूपाणां घटनम् । पूर्वोदाहरणेषु वस्तुसद्घटनम् । तत्राप्याद्योदाहरणद्वयं शुद्धं, अन्यानि श्लेषादिसंकीर्णानि । अत्र तु दुग्धादीनां यशसश्च तर्कितं घटनं, ‘त्वं क्व तस्या मुखं क्व’ इतिवत् । श्लेषव्यतिरेकसंकीर्णत्वं च विशेषः ॥

 यथावा--

 द्यूतस्थितिमानादौ मध्यम एवान्ततोऽणिमहितश्च । क्व द्युमणिः क्वाधूर्तोऽच्युताश्रितोऽत्युत्तमो महामहिमा ॥ ११८० ॥

 आदौ पूर्ववयसि द्यूतस्थितिमान् द्यूतनिरतः । अत एव मध्यम एव उत्तमत्वेनापरिगणित एव सन् अन्ततः चरमवयस्यपि अणिमहितः अणिमा हितो यस्य स तथोक्तः केवललाघवप्रसक्तः। द्युमणिः भानुः क्व । पक्षे आदौ द्युना द्यु इति वर्णसमुदयेन ऊता स्यूता या स्थितिः तद्वान् । मध्यः मः मवर्णो यस्य स तथोक्तः । अन्ततः अन्ते णिना णिवर्णेन महितः द्युमणिः द्युमणिशब्दः । आदिमध्यावसानेषूक्तवर्णघटित इत्यर्थः । अधूर्तः अनक्षदेवी अत्युत्तमः महान् महिमा महत्त्वं यस्य स तथोक्तः । अच्युताश्रितः भागवतः क्व । अनयोर्महदन्तरमित्यर्थः । अत्र भानुभागवतयोरननुरूपयोर्घटनम् । श्लेषव्यतिरेकसंकीर्णता घटनस्य तर्कितता च तुल्या ॥

 भगवति हरिणि हिरण्मयि भवती क्व पुरस्सुवर्णवद्भाना । इतरा च सुरी क्व नु वा पश्चार्धे रीतिवर्णमाप्तवती ॥ ११८१ ॥

 ALANKARA II
44