पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३५८

पुटमेतत् सुपुष्टितम्
347
विषमालंकारसरः (४०)

तयबद्धः । ईशीय वशयितुं कथमनन्तगुणवशितसकललोकं त्वाम् ॥ ११८२ ॥

 हे नाथ ! मम एकोऽपि सुगुणः बन्धनपूर्वकवशीकरणसाधनभूता द्रढीयसी रज्जुः । ‘रज्जुस्त्रिषु वटीगुणे' इत्यमरः । न नास्ति । सत्यार्जवदयादिरात्मगुणो नास्तीति वस्तुस्थितिः । नैतावदेव प्रत्युत उक्तवैपरीत्येन ‘प्रत्युतेत्युक्तवैपरीत्ये' इति गणव्याख्याने । अहमेव गुणत्रितयेन रज्जुत्रयेण सत्त्वरजस्तमोरूपेण च प्राकृतगुणत्रयेण बद्धः अस्मीति शेषः । अनन्तैः असंख्याकैः गुणैः रज्जुभिः सौशील्यादिभिः कल्याणगुणैश्च वशितलोकं स्वायत्तीकृताखिलभुवनं त्वां वशयितुं कथमीशीय । अत्र कविभगवतोरननुरूपयोर्घटनं क्वशब्दाभ्यां विनैव दर्शितमिति विशेषः । अन्यत्सर्वं प्राग्वदेव ॥

 यथावा--

 सुहृदच्युत दुर्हृद्वा परमपदज्ञैरुदञ्च्यते तुल्यम् । तेषु कथं द्वावपि तौ निपातयन् गण्यतां पदज्ञमुनिः ॥ ११८३ ॥

 हे अच्युत! पद्यते प्राप्यत इति पदं, परमं च तत्पदं च परमपदं परब्रह्मस्वरूपं,

 सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ।

इति,

 समस्तहेयरहितं विष्ण्वाख्यं परमं पदम् ।

 इत्यादिप्रमाणात् । तत् जानन्तीति तथोक्ताः । तैः परब्रह्मवेदिभिः । पक्षे परमाः श्रेष्ठाः पदज्ञाः वैयाकरणाः तैः । सुहृत्