पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३५९

पुटमेतत् सुपुष्टितम्
348
अलंकारमणिहारे

दुर्हृद्वा अनुकूलः प्रतिकूलो वा उदञ्च्यते संसारसागरादुद्ध्रियते । 'तुल्यो मित्रारिपक्षयोः’ इत्युक्तलक्षणानां तेषां मित्रामित्रविभागवैषम्यगन्धोऽपि न संभवतीति भावः । तेषु एवंप्रकारेषु परमपदज्ञेषु तौ सुहृद्दुर्हृदौ द्वावपि निपातयन् भवाब्धौ निमज्जयन्। पक्षे सुहृद्दुर्हृच्छब्दौ निपातयन् ‘सुहृद्दुर्हृदौ मित्रामित्रयोः' इति सूत्रेण निपातयन् । निपातनं नाम लक्षणाभावे शब्दसाधुत्वाय स्वरूपेणोच्चारणम् । पदज्ञः केवलं तत्तत्प्राकृतवस्तुवेदी मुनिः। पक्षे केवलपदज्ञः न तु परमपदज्ञः शब्दशास्त्रदर्शीमुनिः पाणिनिरित्यर्थः । क्व परब्रह्मवेत्तारः क्व चायं केवलशाब्दिको मुनिरिति भावः । अत्र ब्रह्मविदां पाणिनेश्चाननुरूपाणां घटनं क्वशब्दमन्तरेणैव दर्शितं पूर्ववदेव । तुल्ययोगितादिसंकीर्णत्वं विशेषः । अत्र केनापीत्याद्युदाहरणेषु यथासंभवं गम्यमानं घटनाविशेषमादाय लक्षणानुगतिर्बोध्या ॥


द्वितीयविषमम्.

विलक्षणस्य कार्यस्योत्पत्तिं च विषमं विदुः ॥

 कारणरूपविजातीयरूपशालिकार्योत्पत्तिरपि विषममित्यर्थः ॥

 यथा--

 दलितेन्दीवरसुन्दरललिततमा तावकावयवसुषमा । मेधां मयि प्रसूते वैधात्रवधूसुधांशुरुचिविशदाम् ॥ ११८४ ॥

 अत्र 'कारणगुणा हि कार्यगुणानारभन्ते' इति न्यायवि-