पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३६०

पुटमेतत् सुपुष्टितम्
349
विषमालंकारसरः (४०)

रुद्धा श्यामाद्विशदोत्पत्तिर्वर्णिता । अत्रोत्पत्तिलक्षणसंसर्गस्याननुरूपता । अभेदाध्यवसानलक्षणेनातिशयेन समवायिकारणरूपतया स्थिते निमित्तकारणे समवेतकार्यरूपतया स्थिते निमित्तकार्ये वा विषय्यंशमादाय स्फुरितो विरोधो विषयांशविमर्शोत्तरं विनिवर्तत इतीहाप्यभेदाध्यवसानस्यानुप्राणयितृत्वं तदुत्तम्भितविरोधाभासस्य च परिपोषकत्वम् । अयमेव चांशोऽत्र कविप्रतिभोन्मेषितत्वादलंकारताबीजम् । तेन ‘गोमयाद्वृश्चिका जायन्ते’ इत्यादौ कार्यकारणयोर्वैरूप्यसंभवेऽपि नालंकारत्वं, तस्य वास्तवत्वेन कविप्रतिभानिर्वर्तितत्वाभावादित्यलंकारदर्शननिष्णातानां पन्थाः । कार्यकारणयोर्निवर्त्यनिवर्तकभावे पञ्चमी विभावना । विलक्षणगुणशालित्वे त्वयं विषमप्रभेद इति कुवलयानन्दे स्थितम् ॥

 यथावा--

 शशिविशदात्क्षीरोदात्कठिनतराद्वा मदम्ब धरणितलात् । कथमाविरभूद्भवती कनकपिशङ्गीशिरीषमृदुलाङ्गी ॥ ११८५ ॥

 अत्र विशदतरात्कठिनतराच्च कारणात्पिशङ्गकोमलरूपविजातीयकार्योत्पत्तिः । इदं वक्ष्यमाणयथासङ्ख्यसंकीर्णम् ॥

 यथावा--

 जाता जगदीश्वर ते चरणाज्जलजारुणाज्झरी हरिणा । स्वक्षीरपूरपातॄन् सूते कृष्णाकृतीनियं चित्रम् ॥ ११८६ ॥