हरिणा पाण्डुरवर्णा ‘हरिणः पाण्डुरः' इत्यमरः । झरी गङ्गा । क्षीरं जलं दुग्धं च । कृष्णाकृतीन् श्यामलाकारान् प्राप्तभगवत्सारूप्यानिति तु वस्तुस्थितिः । अत्रापि कारणगुणप्रक्रमविरुद्धादरुणाद्धवळोत्पत्तिः धवळाच्छ्यामलोत्पत्तिश्च वर्णिता । इदं मालारूपवक्ष्यमाणैकावळीपरिष्कृतं श्लेषोत्तम्भितं चेतिविशेषः ॥
केचित्तु- कारणक्रियातो विरुद्धक्रियस्य कार्यस्योत्पत्तावपि विषमप्रभेदं मन्वानाः
गुणक्रियाभ्यां कार्यस्य कारणस्य गुणक्रिये ।
क्रमेण च विरुद्धे यत्स एष विषमो मतः ॥
इति लक्षयित्वा
त्वामामोदयसे लोकांस्त्वत्तेजस्तापयत्यरीन् ।
इति द्वितीयप्रभेदमुदाहार्षुः । तन्मते इदमुदाहरणम्, यथा--
अमृतं प्रसवितुरब्धेरमृतांशुमपि त्वमम्ब जनिताऽसि । परमाद्भुतमेतन्नः प्रासूथाः कर्दमं कथं त्वमिति ॥ ११८७ ॥
हे अम्ब! अमृतं अमृतांशुमपि प्रसूतवतोऽब्धेः त्वं जनिता असि । त्वं ईदृशीति भावः । कर्दमं पङ्कं कथं प्रासूथा इति विरोधः, कर्दमाख्यं पुत्रमिति परिहारः । ‘कर्दमेन प्रजा भूताः' इति श्रुतेः । अत्रामृतामृतांशुजननक्रियावतो जलधेः कारणात् कर्दमजननक्रियाशालिलक्ष्मीिरूपकार्योत्पत्तिर्वर्णिता । श्लेषोपस्कृतमिदम् ॥
यथावा--
नरकनिराकरणचणप्रगुणश्रीरमणचरणजा ध-