पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३६२

पुटमेतत् सुपुष्टितम्
351
विषमालंकारसरः

रणिः । नरकं वक्रं च सुतं प्रासोष्ट न कस्य विस्मयायेदम् ॥ ११८८ ॥

 नरकस्य निरयस्य निराकरणेन वित्तौ निराकरणचणौ 'तेन वित्तश्चुञ्चुप्चणपौ' इति चणप्प्रत्ययः । प्रगुणौ अवक्रौ प्रकृष्टमार्दवादिगुणशालिनौ च 'ऋजावर्जिहप्रगुणौ' इत्यमरः । यौ श्रीरमणचरणौ ताभ्यां जाता ‘पद्भ्यां भूमिः’ इति श्रुतेः । धरणिः नरकं निरयं वक्रं कुटिलं च सुतं प्रासोष्टेति विरोधः । नरकाख्यं दानवं अङ्गारकं च प्रासोष्टेति वस्तुस्थितिः । ‘नरकः पुंसि निरयदेवारातिप्रभेदयोः, वक्रो भौमेऽनृजौ त्रिषु' इति मेदिनीरत्नमाले । अत्र नरकनिराकरणक्रियावतः आर्जवगुणशालिनश्च भगवच्चरणात्कारणाज्जताया धरण्या नरकरूपसुतजननक्रियावैशिष्ट्यं वक्रत्वरूपगुणविशिष्टसुतप्रसूतिश्च वर्णिते इति पूर्वस्माद्विच्छित्तिविशेषः ॥

 समाधानगर्भमपीदं विषमं दृश्यत इति विश्वेश्वरादयः । तत्रोदाहरणं यथा--

 स्वाहारसमं सूते सुतं प्रसूरिति वचो हरे न मृषा । शिशिराऽपि त्वद्दृष्टिर्यदसौद्भवतापकबळनात्तपनम् ॥ ११८९ ॥

 हे हरे! प्रसूः माता स्वाहारसमं स्वाभ्यवहृतवस्त्वनुरूपगुणं सुतं सूते इति वचः न मृषा सत्यमेव । यत् यस्मात् कारणात् त्वद्दृष्टिः दृक् स्वयं शिशिराऽपि भवस्य संसृतिसंम्बन्धिनां तापानां संतापानां आध्यात्मिकादीनामिति तु तत्त्वं,