पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३६४

पुटमेतत् सुपुष्टितम्
353
विषमालङ्कारसरः (४०)

पिबतीति कपिरितिव्युत्पत्तेः । अत एव ‘कप्यासम्’ इति पदविवरणावसरे 'कपिस्त्वादित्यः कं पिबति किरणैः’ इति वरदगुरवः । ‘कपयोऽर्केभवानराः’ इति रत्नमाला । अत्रोभयत्रापि समाधानगर्भं विषमम् । प्रथमे गुणविरोधस्य प्रयोजकान्तराधीनं समाधानं, द्वितीये क्रियाविरोधस्य कारणे कार्यधर्मकल्पमाधीनं समाधानमिति विशेषः ॥


तृतीयविषमम्.

इष्टार्थोद्योगतोऽनिष्टावाप्तिश्च विषमं मतम् ॥

 अनिष्टावाप्तिरित्यत्र न इष्टावाप्तिरितीष्टावाप्तिशब्देन नञ्समासः । इष्टानवाप्तिरित्यर्थः । अन्यश्च न इष्टमनिष्टमितीष्टशब्देन नञ्समासः । अनिष्टस्यानर्थस्यावाप्तिरित्यर्थः । उक्तमर्थद्वयमप्यावृत्तिलभ्यम् । ततश्चाभीष्टार्थमुद्दिश्य किंचित्कार्यमारब्धवत इष्टानवाप्त्यनिष्टावाप्ती मिळिते एको भेदः, केवलेष्टानवाप्तिः केवलानिष्टावाप्तिश्चेति प्रत्येकं भेदद्वयमिति त्रयो भेदास्संगृहीता भवन्ति । इष्टार्थश्च-- स्वस्य किंचित्सुखसाधनार्थावाप्तिः दुःखसाधनानर्थनिवृत्तिश्च, परस्य दुःखसाधनानर्थप्रापणं सुखसाधनार्थनिवृत्तिश्चेति चतुर्विधः । तेन इष्टानवाप्तिघटिते भेदद्वितयेऽपि चातुर्विध्यम् । अनिष्टश्च--स्वस्य दुःखसाधनानर्थप्राप्तिः, परस्य सुखसाधनार्थप्राप्तिः, दुःखसाधनानर्थनाशश्चेति त्रिविधः। स्वस्येष्टाप्राप्तिस्तु गणितेति नानिष्टे गण्यते । तेनानिष्टावाप्तिघटिते भेदद्वितयेऽपि त्रैविध्यम् ॥

 उदाहरणानि–- तत्र स्वसुखसाधनार्थावाप्तिरूपेष्टार्थोद्योगादिष्टानवाप्तौ दुःखसाधनरूपानिष्टप्रतिलम्भे च यथा--

 ALANKARA II
45