पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३६७

पुटमेतत् सुपुष्टितम्
356
अलंकारमणिहारे

 शौरिः इष्टः अर्थस्य धनस्य लाभः अधिकफलं 'लाभोऽधिकं फलम्' इत्यमरः । तस्मिन् लोभात् । पक्षे अभीप्सितोपभोगरूपप्रयोजनलाभलोभादित्यर्थः । उपसर्पन्त्याः समीपमायान्त्याः व्रजेन्दुवदनायाः नीवीमपि परिपणमपि; पक्षे कटिवसनबन्धमपि ‘स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपिच' इत्यमरः । परिपणं मूलधनं 'नीवी परिपणं मूलधनम्' इत्यनुशासनात् । शिथिलां नश्वरीं । पक्षे विस्रस्तां । अकृत । बतेति खेदे । तत्र हेतुः सद्यस्तनलाभेप्सुरिति । तादात्विकस्वलाभेप्सुरेवायं न त्वन्ययोगक्षेमचिन्तक इति भावः । तत्क्षणवक्षोजपरिरम्भेच्छुरिति वास्तवार्थः । अत्राधिकधनलाभार्थिन्या व्रजविलासिन्या मा भूत्तदवाप्तिः किंतु स्वलाभमात्रेप्सुना शौरिणा तन्मूलधनमपि शिथिलितमित्यनिष्टप्रतिलम्भश्च वर्णितः । उपपादितार्थद्वयश्लेषभित्तिकाभेदाध्यवसायजीवातुकोऽयं विषमोपन्यास इति ध्येयम् ॥

 यथावा--

 अहमपि विधुरिति मधुरिपुसधर्मतायै निबद्धविस्पर्धः । विधुतोऽमुनाऽन्ततोऽभूत् ग्लौरलसत्तामवाप्य गौरेव ॥ ११९४ ॥

 पूर्वार्धं स्पष्टार्थम् । ग्लौः मृगाङ्कः अमुना मधुरिपुणा विधुतः तिरस्कृतः अत एव अलसत्तां लसतो भावः लसत्ता न लसत्ता अलसत्ता तां अप्रकाशमानतां । यद्वा अलसः मन्दः स इवाचरतीत्यलसन् तस्य भावः अलसत्ता तां आलस्यमित्यर्थः । अवाप्य मन्दो भूत्वेत्यर्थः । अन्ततः पर्यवसाने गौः पशुरेव अभूत् । न तु भगवत्सधर्मेति भावः । पक्षे ग्लौशब्दः