पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३७०

पुटमेतत् सुपुष्टितम्
359
विषमालङ्कारसरः (४०)

‘प्सुः स्तबकः प्रशस्तकुसुमगुच्छः अस्तः निरस्तस्सन् 'नुत्तनुन्नास्तनिष्ठ्यूतविद्धक्षिप्तेरितास्समाः' इत्यमरः । बकः बभूव कोकसाम्यप्रेप्सया यतमानो निरस्तः कह्वाख्यो निहीनः खगोऽभूत् न तूत्तमश्रीकुचकोकसदृश इति भावः । किंच बकः शिवमल्ली बभूव लक्ष्म्या निरस्तः पाशुपताख्यपुष्पतरूविशेषो बभूवेत्यप्यर्थो गम्यते । 'शिवमल्ली पाशुपत एकाष्ठीलो बको वसुः । इत्यमरः । ‘बकस्तु बकपुष्पे स्यात्कह्वे श्रीदे च रक्षसि' इति मेदिनी च । लक्ष्मीनिरस्तस्य पाशुपतमतप्रवेशो युक्त एवेति भावः । पक्षे स्तबकः स्तबकशब्दः अस्तः अविद्यमानस्तवर्णः बको बभूव । भागो भागधेयं ‘भागो रूपार्थके प्रोक्तो भागधेयैकदेशयोः' इति विश्वः ‘भागिनं भजते सुखम्' इति प्रयोगश्च । सूनः सुष्ठुः ऊनः भागः सोऽस्यास्तीति सूनभागी तस्य अतिमात्रनिहीनभाग्यस्येत्यर्थः । पक्षे भजतीति भागी संपृचानुरुध’ इत्यादिना भजतेर्घिनुण् ‘चजोः कु घिण्यतोः’ इति कुत्वम् । सूनानां कुसुमानां भागी तस्य पुष्पभाज इत्यर्थः । सुगममन्यत् । अत्रापीष्टानवाप्त्यनिष्टप्रतिलम्भौ पूर्ववदेव । अर्थान्तरन्यासशिरस्कश्लेषसंकीर्णता तु विशेषः ॥

 यथावा--

 तव वर्णमुपजिहीर्षुर्माधव मध्ये स्ववर्णविभ्रष्टः । बकवृत्तिमेव लब्ध्वा बलाहको नाञ्च्यते स्म वाचाऽपि ॥ ११९८ ॥

 हे माधव ! बलाहकः वारिवाहकः बलाहकशब्दश्च तव वर्णं अपजिहीर्षुः अत एव मध्ये अन्तरैव स्ववर्णात् विभ्रष्टः । पक्षे मध्ये स्ववर्णाभ्यां ला ह इत्येताभ्यां विभ्रष्टः । लाहौ इत्येतौ वर्णौ विभ्रष्टौ यस्येति वा । बकवृत्तिमेव--