पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३७१

पुटमेतत् सुपुष्टितम्
360
अलंकारमणिहारे

अधोदृष्टिर्नैकृतिकस्स्वार्थसाधनतत्परः ।
शठो मिथ्याविनीतश्च स बकव्रतिको द्विजः ॥

 इत्युक्तप्रकारां बकवृत्तिमेव यद्वा स्वाभीप्सितालाभाद्बकवत्तूष्णीं स्थितिमित्यर्थः । कह्वाख्यखगत्वमेव वा । पक्षे ब क इति वर्णयोः स्थितिमेव लब्ध्वा बलाहकशब्दो लाहवर्णयोरपाये बकवर्णयोरेव स्थितिं भजत इति भावः । वाचाऽपि नाञ्च्यते स्म 'हैतुकान् बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत्' इत्युक्तरीत्या वाङ्मात्रेणाप्यर्चितो नासीदित्यर्थः । यद्वा बकस्य तिर्यक्त्वान्मनुष्यार्हवागवाप्तिर्नासीदेवेति भावः । अत्र बलाहकस्य न भगवद्वर्णापहाररूपेष्टानवाप्तिमात्रं अपितु स्ववर्णभ्रंशाद्युत्तरोत्तरोत्कटानिष्टोपलम्भश्च वर्णितः ॥

 यथावा--

 श्रीस्तनसाम्यं प्रेप्सुः कुलाचलो निश्चितः कुलालोऽभूत् । तत्सदृशा इति कलशानपि विदधानः किमीप्सितं लब्धा ॥ ११९९ ॥

 कुलाचलः निश्चितस्सन् कर्तरिक्तः कुलालः कुम्भकारः अभूत् । पक्षे कुलाचलशब्दः निर्गतः चकारो यस्य सः निश्चः निश्चः कृतो निश्चितः कुलालः अभूत् । अत्रापि श्रीस्तनसाम्यरूपेष्टानवाप्तिपूर्वकं कुलाचलस्य कुलालत्वरूपानिष्टप्रतिलम्भः ॥

 यथावा--

 कलभस्तव गतिविभवं सुलभं मत्वा त्वया प्रतिस्पर्धी । अलभत कशाभिघाताच्छलभत्वं हन्त वृषभशिखरिविभो ॥ १२०० ॥