पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३७२

पुटमेतत् सुपुष्टितम्
361
विषमालंकारसरः (४०)

 कशायाः 'अश्वादेस्ताडनी कशा' इत्यमरः, आभिघातात् । पक्षे शेन शवर्णेन अभिघातः विलोपनं 'साधनं कृता' इति समासः । कस्य कवर्णस्य शाभिघातः तस्मात् ककारमपनीय शकारन्यसनादिति यावत् । कलभः शलभत्वं पतङ्गत्वं कलभशब्दश्शलभशब्दत्वं च ॥

 यथावा--

 फणिगिरिनायकभामिनि तावकतनुसौकुमार्यहरणेच्छम् । कश्याहतेश्शिरीषं करीषभूतं जगज्जननि जातम् ॥ १२०१ ॥

 हरणे इच्छा यस्य तत् हरणेच्छं, शिरीषस्य विकारः पुष्पं शिरीषं 'द्विहीनं प्रसवे सर्वं' इति क्लीबता । कशामर्हतीति कश्या अर्हार्थे 'दण्डादिभ्यो यः' इति यः । कशाप्रहारानुगुणतैक्ष्ण्येति यावत् । तादृश्या आहतेः 'कश्यः कशार्ह' इत्यमरः । पक्षे ककारेण शिवर्णस्याहतेः शिवर्णस्थाने ककारनिवेशादिति यावत् । करीषभूतं शुष्कगोमयवदतिपरुषभूतम्, पक्षे करीषमितिपदं जातं 'तद्धि शुष्कं करीषोऽस्त्री’ इत्यमरः । अत्र शिरीषस्य श्रीतनुसौकुमार्यलाभरूपेष्टप्रप्तिर्मा भूत्, प्रत्युत नैसर्गिकस्वसौकुमार्यप्रतीपकार्कश्यरूपानिष्टलाभश्च जात इति ध्येयम् ॥

 यथावा--

 तपनस्य शरीरं त्वत्तपनीयविमानदीप्तिमादित्सु । अशकतयाऽऽदित एव हि करीरमासीत्सरीसृपगिरीन्दो ॥ १२०२ ॥

 ALANKARA II
46