पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३८०

पुटमेतत् सुपुष्टितम्
369
विषमालङ्कारसरः (४०)

 यथावा--

 द्विजजनिभुवमच्युत तव वदनं द्विजराजतामदात्पूर्णेन्दुः । वशयितुमिच्छुः क्रमशो मलिनात्माऽविप्रभामुपाजीवदहो ॥ १२११ ॥

 हे अच्युत! पूर्णेन्दुः द्विजराजतामदात् अहं ब्रह्मणानां राजेति गर्वात् ‘सोम एव नो राजेत्याहुर्ब्राह्मणीः प्रजाः’ इति श्रुतेः । द्विजजनिभुवं ब्राह्मणोत्पत्तिस्थानं ‘ब्राह्मणोऽस्य मुखमा सीत्' इति श्रुतेः । तव वदनमपि वशयितुं स्ववशे विधातुं इच्छन् सन् क्रमशः क्रमेण मलिनात्मा ईदृशसंकल्पेन पापिष्ठस्सन्, असितपक्षे कलापचयेन निष्प्रभशरीर इति वस्तुस्थितिः । अविप्रस्य अब्राह्मणस्य शूद्रस्य भां वर्चः, स्वस्य ब्राह्मणराजताप्रख्यापनाय तज्जनिस्थानभूतभगवन्मुखवशीकरणप्रवृत्तस्स्वयमेवाब्राह्मणतामवापेत्यर्थः । पक्षे अवेः भानोः तेजः उपाजीवत् उपजीव्यत्वेनाभ्युपैदित्यर्थः । दर्शे चन्द्रमसः रविसंबन्धस्य तद्दत्ततेजस्त्वस्यच श्रुत्यादिप्रसिद्धत्वात् । आहुश्च ज्योतिर्विदः-- 'सलिलमये शशिनि रवेर्दीधितयो मूर्छितास्तमो नैशम् । क्षपयन्ति’ इति । अत्रापीष्टानवाप्त्यनिष्टप्राप्ती स्पष्टे ॥

 यथावा--

 यशसा मराळिका तव विजिताऽमाळिर्भवन्त्यथ कथंचित् । राका सती स्मितरुचाऽन्ततोऽम्ब कारास्थिता ह्यवाङ्मूर्धा ॥ १२१२ ॥

 हे अम्ब! मराळिका हंसी त्वद्यशस्साम्यमभिलषन्तीति भावः । तब यशसा विजिता सती अत एव अमाळिः अमा-

 ALANKARA II
47