पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३८३

पुटमेतत् सुपुष्टितम्
372
अलंकारमणिहारे

 यथावा--

 इक्षुरसोऽम्ब त्वद्वाग्रसदूरधुतस्सदासतां बिभ्रत् । कमपि भजन्नन्तेऽभूदिक्षुरको नास मधुपभोग्योऽपि ॥ १२१५ ॥

 हे अम्ब ! सः स्वादुत्वेन जगद्विदितः इक्षुरसः रसालासव इति यावत् । त्वद्वाग्रसादप्युत्कर्षेप्सुरिति भावः । त्वद्वाग्रसेन दूरधुतः अत एव दासतां किंकरतां बिभ्रदपि अन्ते अनन्तरं कमपि भजन् ब्रह्माणमुपासीनोऽपि इक्षुरकः क्षुद्रकण्टकिवृक्षविशेष एवाभूत् न तु त्वद्वाग्रसादुत्कृष्टः । अत एव मधुपानां शीधुपातॄणां मधुकराणामिति च । भोग्योऽपि नास नासीत् । आसेति तिङन्तप्रतिरूपकमव्ययम् । ‘मधुव्रतो नेक्षुरकं हि वीक्षते’ इत्युक्तेरिति भावः । पक्षे इक्षुरसशब्दः सदा असतां अविद्यमानसकारतां बिभ्रत् ध्वस्तसकार इत्यर्थः । अन्ते अवसाने कं कवर्णमपि भजन् प्राप्नुवन् सन् इक्षुरक इति निष्पन्न इत्यर्थः । अत्रेक्षुरसस्य इष्टानवाप्तिरनिष्टप्रतिलम्भश्च स्पष्ट एव ॥

 यथावा--

 स्वरतोऽम्ब वल्लकी तव धुता तुलयितुं वचांसि कीरीभावम् । यान्त्येव वल्लरीत्वं याता सुकुमारतापराभूताऽभूत् ॥ १२१६ ॥

 हे अम्ब! वल्लकी वीणा त्वत्स्वरतुलनेच्छुरिति भावः । तव स्वरतः कण्ठस्वरेण धुता सती तव वचांसि तुलयितुं कीरीभावं शुकीभावं यान्त्येव गच्छन्त्येव वल्लरीत्वं कुसुममञ्जरीत्वं याता । कीरीभावावाप्त्यवसर एव वल्लरी बभूवेत्यर्थः ।