पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३८४

पुटमेतत् सुपुष्टितम्
373
विषमालङ्कारसरः (४०)

अथ सुकुमारतया सौकुमार्येण पराभूता अभूत् । पक्षे वल्लकीशब्दः कीरीभावं कीवर्णस्य रीवर्णत्वं कीवर्णापनयनेन रीवर्णन्यसनमित्यर्थः । यान्येव सती वल्लरीति निष्पन्नेत्यर्थः । अत्र वल्लक्या ईप्सितालाभः अनिष्टपरंपरावाप्तिश्च द्रष्टव्या ॥

 यथावा--

 नारायण तव कीर्तिभिरैरावत एव भग्नमुखवर्णः । वळतेत्रपावलीढः पारावततामवाप्य वनसीम्नि ॥ १२१७ ॥

 भग्नः मुखवर्णः वदनतेजः आदिवर्णश्च यस्य स तथोक्तः । अत एव त्रपया लज्जया अवलीढः । पक्षे अत्र पावलीढः इति च्छेदः अत्र निरस्तमुखवर्णस्थाने पावलीढः पावर्णेन युक्तः पारावततां कपोततां तद्वद्धूम्रवर्णतामिति यावत् । पक्षे पारावतशब्दतामित्यर्थः । स्पष्टमन्यत् । अत्रापि भगवत्कीर्तितौल्येप्सोरैरावतस्य इष्टालाभानिष्टप्राप्ती वर्णिते ॥

 यथावा--

 भ्रष्टस्वाद्याकारस्त्वद्गाम्भीर्येप्सुरथ धुतोऽकूपारः । आपद्यासारत्वं श्रीपरिबृढ कूपमात्ररूपमवाप ॥ १२१८ ॥

 हे श्रीपरिबृढ! अकूपारः सिन्धुः त्वद्गाम्भीर्येप्सुः अत एव धुतः त्वयेति शेषः । अत एव भ्रष्टः स्वस्य आद्यः प्राथमिकः आकारो रूपं गाम्भीर्यादिकं यस्य स तथोक्तः । भ्रष्टः स्वाद्यः रुच्यः आकारो यस्येति च । अत एव असारत्वं विबलत्वं नी-