पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३८६

पुटमेतत् सुपुष्टितम्
375
विषमालङ्कारसरः (४०)

 यथावा--

 त्वद्वचनरसधुतत्वाद्व्यपयातायाऽवसत्तिमत्स्वान्ता । सा मृद्वीका स्वामिनि कामं स्यान्मृत्तिकैव को विशयः ॥ १२२० ॥

 हे स्वामिनि! या मृद्वीका द्राक्षा ‘मृद्वीका गोस्तनी द्राक्षा' इत्यमरः । त्वद्वचनरसलिप्सुरिति भावः । त्वद्वचनरसेन धुतत्वात् व्यपयाता दूरं क्वापि गता सती अवसत्तिः अवसादः सोऽस्यास्तीति अवसत्तिमत् स्वान्तं हृदयं यस्यास्तथाभूता आभूदिति शेषः दीनमानसाऽभूदित्यर्थः । सा मृद्वीका कामं मृत्तिकैव स्यात् मृदाकारतामेवापद्येत । तद्वन्नीरसा संपद्येतेति भावः । पक्षे धुतत्वाद्व्यपयातेत्यत्र धुतत्वात् द्व्यपयातेति च्छेदः । धुतत्वात् व्यपयातेति प्राथमिकच्छेदपक्षे दकारस्य ‘अनचि च’ इति द्वित्वं, याऽवसत्तिमत्स्वान्तेत्यत्र या अवसत् त्तिमत्स्वान्तेति च्छेदः । या मृद्वीकेति शब्दव्यक्तिः द्व्यपयाता द्वी इत्याकारकवर्णादपगता । द्वी इत्याकारकवर्णः अपयातो यस्या इति वा । उत्सारितद्वीवर्णेत्यर्थः । त्तिः द्वित्वघटितस्तिकारः सोऽस्यास्तीति त्तिमान् स्वान्तः स्वान्तरं यस्यास्सा तथोक्ता सती अवसत् अवात्सीत् । अस्मिन् पक्षे अवसत्तिमदित्यत्र तकारत्रये 'झरो झरि सवर्णे’ इति द्वितीयतकारस्य लोपे अर्थद्वयेऽपि द्वितकारत्वं द्रष्टव्यम् । 'अन्तोऽस्त्री निश्चये नाशे स्वरूपेऽग्रेऽन्तिकेऽन्तरे' इति रत्नमाला । मृत्तिकैव स्यात् उक्तरीत्या मृत्तिकेति निष्पद्येतेत्यर्थः । अत्र मृद्वीकाया न परं श्रीवचनरसालाभः अपितु मृत्तिकात्वरूपोत्कटानिष्टप्राप्तिः ।