पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३८७

पुटमेतत् सुपुष्टितम्
376
अलंकारमणिहारे

 यथावा--

 दिवमेत्य शचीपतिरिति नहुषोऽभिख्यातिलिप्स एवाथ । शप्तोऽभिख्याहीनः पराङ्मुख्याच्छ्रियस्तिलिप्सोऽभूत् ॥ १२२१ ॥

 नहुषः प्रसिद्धः दिवं स्वर्गं एत्य ऐन्द्रं पदमासाद्येति यावत् । शचीपतिरिति अभिख्यातौ लिप्सा यस्य स तथाभूतस्सन्नेव । अथ ईदृशसंकल्पानुपदमेव श्रियः लक्ष्म्याः पाराङ्मुख्यात् शप्तः मुनिनेति शेषः । अभिख्याहीनः तेजोविधुरः तिलिप्सः अजगरः अभूत् । यद्यपि ‘अथ गोनसे । तिलिप्सस्स्यात्' इत्यनुशासनात् गोनसाख्यमहाहिविशेषवाच्येव तिलिप्सशब्दः, न त्वजगरवाची 'अजगरे शयुर्वाहस इत्युभौ’ इत्यनुशासनात् । तथाऽपि तयोर्गोनसाजगरयोर्ग्राहनक्रयोरिव यत्किंचिद्वैलक्षण्यानादरेणाभेदः कविसमयसिद्ध इति ध्येयम् । तिलिप्सशब्दं तिलत्स इति केचित्पठन्ति । अस्माभिस्तु तिलिप्स इति प्रचुरपाठमनुसृत्यायं विच्छित्तिविशेषः प्रदर्शितः । 'तिल गतौ' तेलतीति तिलिः 'इक्कृष्यादिभ्यः’ इति इक् जङ्गमं वस्तु । तं प्साति भक्षयतीति तिलिप्सः । ‘प्सा भक्षणे' आदादिकादस्मात् ‘आतोऽनुपसर्गे' इति कः । यद्वा ‘तिल स्नेहने’ तुदादिः तिलनं तिलिः, तेन प्सातीति तथोक्तः । यथाकथंचिदर्थप्रदर्शनमिदम् । नात्रावयवार्थे विशेषतोऽभिनिवेष्टव्यं रूढशब्दत्वादस्य । अत्र नहुषस्य शचीपतित्वख्यातिलाभलक्षणेष्टानवाप्तिपूर्वकाजगरत्वरूपाद्यनिष्टलाभोनिबद्धः । पक्षे अभिख्यातिलिप्सशब्दः अभिख्येति वर्णपङ्क्तेर्विरहे तिलिप्स इत्यवशिष्यत इत्यर्थः ॥