पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३९

पुटमेतत् सुपुष्टितम्
29
श्लेषसरः (२८)

इत्युक्तेः । तेनैव समधिगता सत्ता स्वरूपस्थितिः येषां ते तथोक्ताः । अत एव मुक्ताख्याः मुक्ताभिधानाः सन्मणयः प्रशस्तरत्नानि । विलसन्ती या शुक्तिः मुक्तास्फोटः तस्याः आगताः ततो जाता इत्यर्थः । दृगानन्दाः दृशां ईक्षितृजनलोचनानां आनन्दाः हर्षहेतवो भवन्तीति ॥

 यथावा--

 मुख्यविभुसहजसङ्गावुदग्रभूमाश्रितौ च सुमहान्तौ । हन्त विहङ्गभुजङ्गौ न क्वाप्यर्थे विरोधमुपयातौ ॥ ८३५ ॥

 अत्र गरुत्मदनन्तयोः प्रस्तुतयोः विहङ्गभुजङ्गशब्दयोरप्रस्तुतयोश्च श्लेषः । तथाहि-- सुमहान्तौ विहङ्गभुजङ्गौ गरुडानन्तावित्यर्थः । मुख्यविभुसहजसङ्गौ मुख्ये न तु राजादिवद्गौणे विभौ स्वामिनि श्रीनिवासे सहजः स्वाभाविकः सङ्गः शेषशेषिभावरूपस्संबन्धः ययोस्तौ तथोक्तौ । अत एव उदग्रेण उच्छ्रितेन भूम्ना महिम्ना आश्रितौ च । यद्वा-- उदग्रा श्रेयसी भूः भूदेवी यस्यास्सा तथोक्ता या मा श्रीः तां श्रितौ 'द्वितीया श्रित' इत्यादिना समासः ‘विष्णुपत्नीं महीम्' इत्यादिश्रुतौ 'लक्ष्मीप्रियसखीम्’ इति भूदेव्या लक्ष्मीप्रियसखीत्वोक्तेरिह तद्वैशिष्ट्यमभिहितं श्रियः । यद्वा उदग्रे भूश्च मा चेत्येते भगवद्दिव्यमहिष्यौ श्रितावित्यर्थः । न केवलमेतौ भगवतश्शेषभूतावेव अपितु तत्प्रसादनतत्परयोस्तद्दिव्यमहिष्योरपीति भावः । क्वाप्यर्थे कैंकर्यादिरूपे कस्मिंश्चिदपि प्रयोजने विरोधं नोपयातौ । कस्यचित् भगवन्नित्येच्छाव्यवस्थितेषु तत्तत्कैंकर्यादिष्वन्यस्यानुष्ठानाभिसन्धेरनुदयात् नित्यनिर्दोषभगवदाश्रयणप्रभावाच्चेति भावः ॥