पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३९०

पुटमेतत् सुपुष्टितम्
379
विषमालङ्कारसरः (४०)

 हिंसितुमना भवन्तं कंसरिपो स्तन्यदानतः काचित् । हिंसामाप नृशंसा पुंसामवतंस बहुतरां सैव ॥ १२२४ ॥

 अत्र सैवेत्यनेन भगवदनिष्टप्रापणाभावो दर्शितः ॥

 यथावा--

 राघव तव प्रतापप्रदीपनिर्वापणाय कृतयतनाः । निशिचरबलपतिशलभास्सुलभं निर्वापणं स्वयमविन्दन् ॥ १२२५ ॥

 निर्वापणाय शमनाय । निर्वापणं शमनं निधनं च । ‘निर्वापणं संज्ञपनम्' इत्यमरः । अत्र निशिचरबलपतिशलभानां रघुवरप्रतापप्रदीपनिर्वापणरूपेष्टार्थसमुद्योगात्तदनवाप्तिः प्रत्युत स्वेषामेव तदनिष्टप्राप्तिः । रूपकसंकीर्णमिदम् ॥

 यथावा--

 बन्द्धुं जगतां बन्धुं नन्वधूस्त्वां गुणैः प्रयस्यन्ती । सन्दानिता गुणैस्ते नन्दात्मज सैव मन्दविस्पन्दा ॥ १२२६ ॥

 त्वां गुणैः रज्जुभिः बन्द्धुं नद्धुं ‘बन्ध बन्धने’ अस्मात्तुमुन् । नकारदकारधकारसंयोगः । ते तव गुणैः रज्जुभिः सौशील्यादिकल्याणगुणैश्च । अत्र यशोदाया न केवलं स्वनन्दनबन्धनप्रापणरूपेष्टानवाप्तिः । अपितु तद्गुणैरात्मन एव बन्धनरूपानिष्टप्रतिलम्भः । अस्य बन्धस्यानिष्टत्वं च गुणशब्दोपात्तार्थद्वयश्लेषभित्तिकाभेदाध्यवसायनिर्व्यूढम् ॥