पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३९२

पुटमेतत् सुपुष्टितम्
381
विषमालङ्कारसरः (४०)

गुण: रम्यत्वादिः पराक्रमाद्रिश्च यस्य स तथोक्तः । ‘शेषाद्विभाषा’ इति कप् । कृत्तपरार्थ्यमौर्वीक इत्यपि गम्यते । एवकारेण निरस्तस्य गुणस्य पुनर्दौर्लभ्यं द्योतितम् । अत एव ततः कमपि अतिशोचनीयं आकारं आकृतिं भजन् काको भवन् वायसो भवन् अरिष्टः अरिष्टं अशुभं मृत्युचिह्नं वा अस्यास्तीत्यरिष्टः अर्श आदित्वादच् । अरिष्टशब्दवाच्योऽभूदिति तु तत्त्वम् । ‘अरिष्टमशुभे ताम्रे लशुने सूतिकागृहे । मृत्युचिह्ने च ना त्वेष काके फेनिलनिम्बयोः' इति रत्नमाला । पक्षे कोकः कोकशब्दः अग्र्यः अग्रे स्वान्तरं भवः गुणः गुणसंज्ञिक ओकारः यस्य स तथोक्तः अग्र्यगुणः कः कवर्णः सः विलूनो यस्येति बहुव्रीहिगर्भो बहुव्रीहिः । निरस्तकोवर्ण एवेति भावः । ततः कं कवर्णं । आकारमपीति योजना आवर्णं च भजन् कोकारस्थाने कावर्णं प्रतिपद्यमान इत्यर्थः । अत एव काकोभवन् काक इति निष्पद्यमानस्सन् अरिष्टः वायसवाचक इति यावत् । अभूत् । वाच्यावचकयोस्तादात्म्यं न विस्मर्तव्यम् । अत्र श्रीकुचाभिभवरूपतद्दुःखसाधनलक्षणस्वेष्टार्थलाभोद्योगात्कोकस्य न तदलाभमात्रं प्रत्युत काकतावाप्तिपर्यन्तानिष्टप्राप्तिरित्युभयं दर्शितम् ॥

 यथावा--

 त्वन्मुखतिलकं जेतुं चान्द्रमसो मदबलाद्यदि कलङ्कः। उद्वल्गेत्तद्विजितः कङ्को भविता मदम्बलं चोज्झन् ॥ १२२९ ॥

 हे श्रीरिति सामर्थ्याल्लभ्यते । चान्द्रमसः कलङ्क: मदश्च बलं च मदबलं समाहारद्वंद्वैकवचनम् । श्यामलिमातिशयगर्वात्