पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३९३

पुटमेतत् सुपुष्टितम्
382
अलंकारमणिहारे

आश्रयबलाच्च त्वन्मुखतिलकं जेतुं अभिभवितुं उद्वल्गेत् उत्पतेद्यदि तेन तिलकेन विजितः मदं गर्वं बलं शक्तिं च उज्झन् कङ्को भविता गृध्रविशेषतुल्यो भविता । गृध्रो ह्यामिषगृध्नुस्तद्दौर्लभ्यसौलभ्ये अविमृश्य सहसाऽभिपत्य यथा बलीयोभिर्विहायोभिरभिहतो दूरं धावेत्तथाऽयमपि कलङ्क इति भावः । पक्षे मदम्ब लं च इति च्छेदः। हे मदम्ब मन्मातः! कलङ्कः कलङ्कशब्दः लं लकारं, चकारो भिन्नक्रमः कङ्क इत्यनेन संबध्यते । उज्झन् कङ्कश्च भविता कङ्क इति च निष्पत्स्यत इत्यर्थः । यद्वा चस्त्वर्थः उज्झंश्चेति संबध्यते । लं त्यजंस्तु कङ्कइति भवितेत्यर्थः । अत्रापि कलङ्कस्य श्रीवदनतिलकाभिभवरूपेष्टार्थोद्योगात्तदनवाप्तिः कङ्कत्वरूपोत्कटानिष्टप्राप्तिश्च श्लेषमूलातिशयोपजीविता वक्ष्यमाणसंभावनरूपेण निबद्धा ॥

 यथावा--

 नाथ मसारस्तव रुचिजयमीप्सुरुपेत्य सप्रथमभङ्गम् । लब्ध्वाऽपि विभवमग्रे विसारतां प्राप्तवान् जितोऽक्षिभ्याम् ॥ १२३० ॥

 हे नाथ सः प्रसिद्धः मसारः इन्द्रनीलः ‘मसार इन्द्रनीले स्यात्' इति ‘मसारगल्वर्कमुखः’ इत्यत्र भूषणे कोश उदाहृतः । तव रुचेः जयं अभिभवं ईप्सुस्सन् प्रथमभङ्गं आदावेव पराभवम् । पक्षे मसारशब्दः, सप्रथमभङ्गमित्यत्र सप्रथ मभङ्गमिति च्छेदः । हे सप्रथेति संबुद्ध्यन्तं नाथेत्यस्य विशेषणम् । प्रथया प्रख्यात्या सह वर्तत इति सप्रथः तस्य संबुद्धिः । मभङ्गं मकारलोपं उपेत्य अग्रे अनन्तरं आदिभागे च विभवं प्राभवं जयसाधनभूतमिति भावः । पक्षे वि इति वर्णस्य भवं