पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३९८

पुटमेतत् सुपुष्टितम्
387
विषमालङ्कारसरः (४०)

नुलूनं अनन्तरमेव च्छिन्नं न तु विलम्बेन, पराजितमिति यावत् । माफलमिति मा भूत्स्वोद्दिष्टप्रयोजनं 'जीवन्भद्राणिपश्यति' इत्युक्तनयेन कथमपि जीवेयमिति स्वाभिलषितसाधनानीश्वरतया नैराश्यं दधानमिति भावः । अभिधावत् प्रतिपक्षभिया अभितः पलायमानम् । अंभिपूर्वकाद्धावतेर्लटश्शता । तथा लिपितः तादृशकर्मफलसूचकवैधसललाटरेखावशात् अनुशिष्टं प्राणमात्रावशेषं सत् वाच्यं निर्वीर्यामिदमिति कुत्सनीयं 'वाच्यं तु कुत्सिते हीने वचनीये च वाच्यवत्' इति मेदिनी, अभूत् । पक्षे मालूरफलमितिपदं, शब्दार्थयोस्तादात्म्यम्, तदनु लक्ष्मीकुचजयफलाभिलाषानन्तरं लूनं लूवर्णेन न्यूनं अरं अविद्यमानरेफं च सत् लिपितः स्वघटकाक्षरैः माफलमिति सुशिष्टं सम्यगवशिष्टं अभिधावत् अभिधा साक्षात्संकेतविषयज्ञानहेतुभूतश्शब्दनिष्ठो मुख्यो व्यापारः 'व्यापारश्शक्यधीहेतुर्मुख्यश्शब्दगतोSभिधा’ इति लक्षणात्, साऽस्यास्तीति तथोक्तं सत्, मतुप् । वाच्यं वक्तव्यं अभूत् । श्रीफलरूपार्थविषयकशक्तिमत्तया व्यवहार्यमासीदिति भावः । यद्वा मालूरफलरूपार्थ एव लिपितः स्ववाचकशब्दस्थवर्णैः तथा उक्तरीत्या लूरवर्णत्यागेन सुशिष्टं सम्यगवशिष्टं सत्, माफलमिति अभिधा नामधेयं साऽस्यास्तीत्यभिधावत्, स्ववाचकमाफलरूपशब्दवत्सत् वाच्यं वक्तुं योग्यं अभूत्, स्वाभिधेयार्थमजहदेव व्यवहारार्हमासीदित्यर्थः । माफलं श्रीफलम् । बिल्वस्य माफलवं च ‘वनस्पतिस्तव वृक्षोऽथ बिल्वः' इति श्रुतेः । ‘बिल्वो लक्ष्म्याः करेऽभवत्' इति विद्यारण्यभाष्यधृतवामनपुराणात् ‘तनुमध्या स्वहस्तोत्थं बिल्वं तरुमुपाश्रिता’ इति पृथ्वीधरभाष्यधृतभार्गवतन्त्रवचनाच्चेति ध्येयम् । फलति निष्पद्यत इति फलः