पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४०१

पुटमेतत् सुपुष्टितम्
390
अलंकारमणिहारे

त्यर्थः। उरणः मेषः अजनि । मेषजन्माभजदित्यर्थः । तद्वन्निर्वीर्योऽभवदिति वा । गगने मेषराशितां गत इत्यपि गम्यते । अत एव एषः वारणः उरणो वा अद्यापि रणं युद्धं न पुरस्कुरुते नाद्रियते पराभवभयादिति भावः । पक्षे वारण इति शब्दः मुखभूतो यो वाकरः तस्मिन् अत्याधूतः निरस्तवाकार इत्यर्थः । अग्रे आदौ अनन्तरं वा उपरिगतः उवर्णयुक्तः उरण इति निष्पन्नः रणं रेफणकाररूपवर्णसमुदयं अद्यापि न पुरस्कुरुते पश्चादेव बिभर्ति । वारणोरणशब्दयोरादौ रणवर्णादर्शनात्पाश्चादेव तद्दर्शनाच्चेति भावः । अत्र वारणस्य भगवद्गतिन्यूनीकरणरूपपरानिष्टप्रापणलक्षणेष्टानवाप्तिरुरणत्वरूपानिष्टावाप्तिश्च ॥

 यथावा--

 अभिभवितुं तव वदनं कुतुकादेत्यान्तरालकनिरस्तः । स निशाकरो निशारो भवन्हिमानिलनिवारणं विदधे ॥ १२४० ॥

 हे अम्ब! सः जगदाह्लाददायितया प्रसिद्धः निशाकरः तव वदनं अभिभवितुं कुतुकादेत्य अन्तरा मध्ये अलकैः चूर्णकुन्तलैरेव निरस्तः । ईदृशस्य साक्षात्प्रतिपक्षत्वद्वदनाभिभवोदवीयानिति भावः । पक्षे निशाकरशब्दः अन्तराळे स्वघटकवर्णमध्ये कनिरस्तः निरस्तककारस्सन्नित्यर्थः । निशारो भवन् हिमानिलनिवारणप्रावरणरूपो भवन् ‘निशारस्स्यात्प्रावरणे हिमनिलनिवारणे' इत्यमरः । पक्षे निशारशब्दो भवन्नित्यर्थः । हिमानिलनिवारणं तव वा अन्यस्य वा किंकरीभूयेति भावः । विदधे । अत्र निशाकरस्य श्रीवदनाभिभवानवाप्तिनिशारत्वरूपानिष्टावाप्तिश्च ।