पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४०३

पुटमेतत् सुपुष्टितम्
392
अलंकारमणिहारे

धारणमात्रमकार्षीत् न तु तानभिभवितुं प्राभवदिति भावः । पक्षे इन्दुशब्दः अन्ततो विसर्गं विसर्जनीयं अयन् अनुज्झितविसर्गः केवलं दूनः दुवर्णन्यूनो भूत्वा इना इन् इति वर्णसमुदयेन श्रितः प्राणीत् स्वरूपसत्तामलभतेत्यर्थः । अन्यत्सर्वं प्राग्वत् ॥

 यथावा--

 नव्येन त्वन्महसा पराकृतो द्योच्युतस्स्वयं प्रतनः । प्रद्योतनः प्रहरणादवाक्शिरास्सन्नतोऽभ वद्भगवन् ॥ १२४३ ॥

 हे भगवन्! प्रद्योतनः भानुः त्वन्महोविजिगीषुरिति भावः । नव्येन नूतनेन यूनेति यावत् । स्तव्येनेति वस्तुस्थितिः । ‘णु स्तुतौ' अचो यत्’ इति यत् । तव महसा तेजसा पराकृतः तिरस्कृतः अत एव द्योच्युतः अन्तरिक्षात् स्वर्गाद्वा भ्रष्टः । तत्र हेतुः स्वयंप्रतन इति । प्रतनः पुराणः जीर्ण इति यावत् । 'नश्च पुराणे प्रात्' इति ट्युल् । ‘पुराणप्रतनप्रत्नपुरातनचिरन्तनाः' इत्यमरः । स्वयं स्थविरस्तरुणेन त्वन्महसा स्पर्धमानः कथं तेन नाभिभूयेतेति भावः । प्रहरणात् त्वत्तेजःकृतात्प्रहारात् अवाक्छिराः अवाक्कृतशिरास्सन् नतः प्रणतः अभवत्, तत्प्रहारभग्नो नमितशिराश्शरणं गत इति भावः । पक्षे प्रद्योतनशब्दः द्योच्युतः द्यो इति वर्णश्च्युतो यस्मात्स तथोक्तस्सन् प्रतनः प्रतम इति निषन्नोऽभवत् । अथ प्रहरणात् प्र इतिवर्णसमुदयलोपात् तं प्राप्येत्यर्थः । ल्यब्लोपे पञ्चमी । अवाक्शिरास्सन् विलोमो भवन्निति यावत् । नतः अभूत् नत इति निष्पन्नोऽ-