पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४१

पुटमेतत् सुपुष्टितम्
31
श्लेषसरः (२८)

 अत्र महनीयस्य ब्रह्मविदो महच्छब्दस्वरूपस्य च प्रकृताप्रकृतयोः श्लेषः । तथाहि-- ननु विष्णो! उत्तरं सर्वोत्तमं पदं 'तद्विष्णोः’ इति श्रुतं स्थानं यस्य स उत्तरपदः तस्य भावः तत्ता तां गतेन परमपदे निवसतेत्यर्थः । त्वया सामानाधिकरण्यात् एकाधिकरणकत्वात्, ल्यब्लोपे कर्मणि पञ्चमी । एकाधिकरण्यं प्राप्येत्यर्थः । समासे सम्यगवस्थाने सति संपूर्वकादासेर्घञ् । महतः महनीयस्य कस्यचिद्ब्रह्मविदः सत्याकारे सत्यः अनारोपितः स्वाभाविक इत्यर्थः । स चासावाकारः अपहतपाप्मत्वादिरूपः तस्मिन् सति प्रादुर्भवतीति यावत् । तान्तत्वं अशनायापिपासादिग्लानिः अस्तं अदर्शनं एति प्राप्नोति । तदतीतत्वश्रवणात्तस्य । त्वदनुग्रहेण परमे व्योम्नि त्वया सह वसतः प्रादुर्भूतगुणाष्टकस्य चेतनस्याशनायादिग्लानिर्न कदाऽप्युन्मिषेदिति भावः । अन्यत्र हे-- विष्णो! इति विष्णुशब्दस्यैव संबोधनम् । सामानाधिकरण्यात् प्रवृत्तिनिमित्तभेदेनैकार्थवृत्तित्वरूपात् । यदाहुः— भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिस्सामानाधिकरण्यम्’ इति । उत्तरपदतां समासचरमावयवतां समानाधिकरणोत्तरपदतामित्यर्थः । गतेन प्राप्तेन त्वया विष्णुशब्देन समासे सति महतः महच्छब्दस्य अलोऽन्त्यपरिभाषया अन्त्यस्य तकारस्येत्यर्थः । आकारे आत्वे सति भवति सतीत्यर्थः । सत्याकारे इत्यत्र सति आकारे इति छेदः । तान्तत्वं तकारान्तत्वं अस्तमेति न दृश्यते । आकारादेशेनापहृतत्वात् महाविष्णुरित्येव निष्पद्यते रूपं न तु महद्विष्णुरिति भावः । अत्र ‘आन्महतस्समानाधिकरण’ इति सूत्रार्थोऽनुसन्धेयः ॥