पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४११

पुटमेतत् सुपुष्टितम्
400
अलंकारमणिहारे

लयितुमिच्छन् । भग्नमुखः प्रथमरणे त्वया दशास्यस्स्वयं विहस्तोऽभूत् ॥ १२५० ॥

 कृतमुखतां प्रशस्तवदनत्वमिति यावत् । कुशलत्वमिति वस्तुस्थितिः । ‘वैज्ञानिकः कृतमुखा कृती कुशल इत्यपि' इत्यमरः । कृतहस्ततां प्रशस्तपाणिमत्तामिति यावत् । शराभ्यासशिक्षितहस्तत्वमिति तत्त्वम् । ‘कृतहस्तस्सुप्रयोगः' इत्यमरः । भग्नमुखः मुखभङ्गं प्रापितः । पराभूत इति तु तत्वम् । विहस्तः हस्तविधुरितः व्याकुलश्च ‘विहस्तव्याकुलौ समौ' इत्यमरः । स्पष्टमन्यत् । अत्र दशास्यस्य राघवकृतमुखत्वकृतहस्तत्वशिथिलीकरणलक्षणपरानिष्टप्रापणरूपेष्टानवाप्तिः स्वस्य तादृशानिष्टप्राप्तिश्च ॥

 यथावा--

 मिथिलाधिनाथतनयां विरामयितुयुद्यतो भवन्तमपि । रजनीचरपतिरजनि स्वयं विरामो दिनेशवंशमणे ॥ १२५१ ॥

 मिथिलाधिनाथतनयां विरामयितुं रामविधुरां कर्तुं भवन्तं रामाविरहितं कर्तुं वियुक्तपत्नीकं विधातुम् । स्वयमेव विरामः रामविधुरितो रामाविधुरितश्च । वस्तुतस्तु स्वयं विरामोऽवसानं यस्य स तथोक्तः अजनि । स्पष्टमितरत् । अत्रापि पूर्ववदेव सर्वं द्रष्टव्यम् ॥

 यथावा--

 त्वत्कुचपरिभूतं तावभिभवितुं श्रीश्शम-