पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४१४

पुटमेतत् सुपुष्टितम्
403
विषमालङ्कारसरः (४०)

इत्यमरः, द्वाभ्यां पुम्भ्यामिति भावः, स्पर्धत इत्यूरुस्पर्धिनी सती, स्पर्धा संघर्षः स च पराभिभवेच्छा । अत एव पदा पादेन त्वयेति शेषः । अभिहता आसीत् । पक्षे अपदेति च्छेदः । अभिहता सती अपदा अपहृतदकारा आसीदित्यर्थः । अथ कलिका सती कोरकुरूपा सती रूपान्तरपरिग्रहेण यत्किंचित्त्वद्वस्तुनिरासतो वैरशुद्धिं चिकीर्षन्तीति भावः । पक्षे कदलिकाशब्दव्यक्तिः दकारोत्सारणेन कलिकेति निष्पन्नेत्यर्थः । 'कलिका कोरकः पुमान्' इत्यमरः । तव नखरैः नखैः अभिहता पराजिता आसीत् । अथ वृद्धा अभिवृद्धा प्रौढा सती कालिका मेघसंहतिः भूत्वा तज्जन्मलब्ध्वेति भावः । तव चिकुरैः अभिहता अभिभूता आसीत् । कालिका दुर्गादेवी भूत्वाऽपीति गम्यते । 'कालिका योगिनीभिदि । स्वर्णादिदोषे मेघाळ्यां सुरागौर्योर्नवाम्बुदे’ इति हेमः । पक्षे वृद्धा कलिकेति शब्दव्यक्तिः आदेरचो वृद्धिं प्राप्य वृद्धसंज्ञा सती 'वृद्धिर्यस्याचामादिस्तद्वृद्धम्’ इत्यनुशासनात् कालिकेति निनिष्पद्यमानेत्यर्थः । अत्र कदलिकायास्सर्वधाऽपि लक्ष्म्या ऊर्वाद्यभिभवंरूपानर्थप्रापणरूपेष्टानवाप्तिः पादाहननाद्यनिष्टपरंपरावाप्तिश्च निबद्धा ॥

 यथावा--

 त्वत्तनुजयाय जहती प्रतिकूलाद्यन्तकाकरूपत्वम् । क्रमतस्सविता भवतात्तदपि रमे कदलिका विदलिता स्यात् ॥ १२५५ ॥

 हे रमे! कदलिका रम्भा । तव 'हिरण्यवर्णो’ ‘आदित्यवर्णे' इति श्रुतिप्रथितवर्णाया इति भावः । तनोः जयाय अभिभवाय प्रतिकूलं स्वाभीप्सितादित्यवर्णश्रीतनुजयविरोधि यत्