पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४१५

पुटमेतत् सुपुष्टितम्
404
अलंकारमणिहारे

आद्यन्तं आद्यन्तावभिव्याप्य आपादमस्तकमिति यावत्, काकरूपत्वं वायसतुल्यवर्णत्वं इङ्गालवदस्निग्धनीलवर्णत्वमिति भावः । पक्षे प्रतिकूलयोः विपर्यस्तयोः अद्यन्तयोः आद्यन्तवर्णयोः काकरूपत्वं अन्त्यवर्णे कारूपत्वं आद्यवर्णे करूपत्वं चेत्यर्थः । शब्दार्थतादात्म्यवैभवेन कदळिकायाः काकरूपतानिर्वाहः । जहती सती क्रमतः कालक्रमेण सविता भास्कर एव भवतात् भूयादित्याशीः उपहासार्था । पक्षे क्रमतः आद्यन्तवर्णयोः न तु पूर्ववद्विपर्ययेणान्त्याद्ययोः सविता वि ता इति वर्णाभ्यां सह वर्तत इति तथोक्ता । क्रमेणादौ विवर्णेन अन्ते तावर्णेन च सहितेत्यर्थः । स्यात् तदपि तथाऽपि विदलितैव विशीर्णैव स्यात् । स्वेप्सितासिद्धेरिति भावः । कदलिकेति शब्दव्यक्तिरुक्तरीत्या वर्णविपर्यासेन विदळितेति निष्पद्येतेत्यर्थः । अत्राप्युभयं स्पष्टम् ॥

 यथावा--

 अवधीरणं विधातुं भवतो नक्तंचरेन्द्र उद्युक्तः । अवधीरणमुपयातं यतनादतनोस्तमेव बत भगवन् ॥

 हे भगवन्! नक्तंचरेन्द्रः भवतः अवधीरणं अभिभवं विधातुं उद्युक्तः । यतनात् यत्नात् तमेव नक्तंचरेन्द्रमेव अवधीरणं उपयातं प्राप्तवन्तं अतनोः अकरोः । बतेत्याश्चर्ये । अन्यत्र अवधीः रणं इति च्छेदः । अतनोः अनल्पात् । 'तृतीयादिषु भाषितपुंस्कं पुंवद्गावलस्य’ इति पुंवद्भावः । यतनात् यत्नात् यततेर्भावे ल्युट्, रणं युद्धं उपयातं तमेव अवधीः हतवानिति योजना । अत्र यद्यपि यथाश्रुतप्राथमिकार्थपक्षेऽपि विवक्षितेष्टानवाप्त्यनिष्टप्राप्ती भवत एव । तथाऽपि दैतीयीकार्थप्रदर्शनं उत्कटानिष्टप्राप्तिरूपचमत्कारातिशयायेति ध्येयम् ॥