पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४१६

पुटमेतत् सुपुष्टितम्
405
विषमालङ्कारसरः (४०)

 यथावा--

 विजिगीषु हरेर्नयनं भुजगगिरीन्दोः पदाहतं नलिनम् । खञ्जमभूदुच्चारणपाटवविधुरा वदन्ति तत्कञ्जम् ॥ १२५७ ॥

 पदाहतं चरणेन ताडितं जितं च । खञ्जं प्रतिहतगातिकम् । 'खजि गतिवैक्लब्ये' इति हि धातुः । 'खोडे खञ्जः' इत्यमरः । इदमपह्नुतिशिरस्कमिति वैलक्षण्यम् । वस्तुतस्त्विदमपह्नुतेरेवोदाहरणमिति युक्तं, तस्या एवात्र प्राधान्येन चमत्कृतिजनकत्वात् । प्राधान्येन हि व्यपदेशा भवन्तीत्यसकृदवोचाम । एवमुदाहरणान्तरेऽपि यथायथमूह्यम् ॥

 यथावा--

 त्वद्धामाक्रमितुं ये बद्धास्थाः पौरुषाद्वृषाद्रिमणे । त्वच्छेषैस्तेऽपास्ताः पाषण्डाश्श्रीपतेऽभवन् षण्डाः ॥ १२५८ ॥

 हे वृषाद्रिमणे! श्रीपते! ये पाषण्डाः

येऽन्यं देवं परत्वेन वदन्त्यज्ञानमोहिताः ।
नारायणाज्जगन्नाथात्ते वै पाषडिनस्स्मृताः ॥

इत्याद्युक्तलक्षणाः । 'पाषण्डास्सर्वलिङ्गिनः' इत्यमरः । पौरुषात् पराक्रमात् अभिनिवेशादिति यावत् । ‘पौरुषं पुरुषस्य स्याद्भावे कर्मणि तेजसि' इति मेदिनी । तव धाम वृषाद्रिस्थं दिव्यालयं तत्र स्थितं त्वदर्चादिव्यविग्रहं च ‘गृहदेहत्विट्प्रभावा धामानि' इत्यमरः । आक्रमितुं स्ववशे विधातुं बद्धास्थाः कृतपणबन्धा इति यावत् । अभूवन् । ते पाषण्डाः त्वच्छेषैः त्वद्दासैः