पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४२

पुटमेतत् सुपुष्टितम्
32
अलंकारमणिहारे

 यथावा--

 त्वां विदितवान् सदासंबुद्धौ विष्णो महर्षिविहितगुणम् । त्वयि सुप्रत्ययलोपाद्विसर्जनीयो हि भवति दूरेसः ॥ ८३७ ॥

 अत्र भगवतो विष्णोः विष्णुशब्दस्य च श्लेषः । तथाहि-- हे विष्णो! महांश्चासौ ऋषिर्वेदः पराशरादिर्मुनिश्च 'ऋषिर्वेदे वसिष्ठादौ दीधितौ च पुमानयम्' इति मेदिनी । तेन विहिताः अनुशिष्टाः गुणाः सर्वकारणत्वसर्वज्ञत्वसर्वोत्तमत्वादयो यस्य तं तथोक्तम्। “स कारणं करणाधिपाधिपः । यस्सर्वज्ञस्सर्ववित् । विष्णुः परमः,

विष्णोस्सकाशादुद्भूतं जगत्तत्रैव च स्थितम् ।
तेजोबलैश्वर्यमहावबोधसुवीर्यशक्त्यादिगुणैकराशिः ।
परः पराणां सकला न यत्र क्लेशादयस्सन्ति परावरेशे ॥
समस्तकल्याणगुणात्मकोऽसौ..................... ......॥"

इत्यादिश्रुतिस्मृतिप्रख्यापितकल्याणगुणमित्यर्थः । सदा बुद्धौ मनसि विदितवान् ज्ञातवान् आसं सद्भावभागभवम् । ‘अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः' इति श्रुतेः । अनेवंभूतस्तु असत्त्वाद्दूरतस्त्याज्य इत्याह-- त्वयीति । दूरेस इत्यत्र दूरे अस इति छेदः । स न भवतीत्यसः अतथाविधः उक्तविधं त्वामविदितवानित्यर्थः । अत एव त्वयि विषये सुप्रत्ययस्य शोभनस्य ज्ञानस्य महाविश्वासस्य वा लोपात् दूरे विसर्जनीयः त्याज्यो भवति । हीति प्रसिद्धौ । ईदृशस्सतां बहिष्कार्य एवेति प्रसिद्धमेवेति भावः । अन्यत्र-- हे विष्णो!