पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४२१

पुटमेतत् सुपुष्टितम्
410
अलंकारमणिहारे

 हे विष्णो! त्वत्पदं त्वच्चरणं तत्तदीप्सितानुगुणसकलफलप्रदमिति भावः । पक्षे विष्णुपदं अन्तरिक्षमित्यर्थः । ईदृशार्थविवक्षयैव विष्णो इति संबोधनम् । अभ्रं वारिवाहः त्वत्तनूपमां त्वद्दिव्यविग्रहतुलां तव तनुं अल्पामप्युपमामिति च गम्यते । अलब्ध्वा अमुखमभूत् । इयं लोकोक्तिः । ईप्सितानवाप्तेस्त्रपथा कस्यचिदपि वदनमुन्नमय्य दर्शयितुं न प्राभवदिति भावः । अमुखं अकारमुखवर्णमिति वस्तुस्थितिः, अभ्रशब्दस्य तथात्वात् । तथाहि, भ्रान्तस्य अनवस्थितचेतसः तीव्रतमपवमानविक्षेपक्षुभितस्य च विष्णुपदाश्रयणेऽपि इष्टं ईप्सितं कथं सफलं भवेत् । क्षिप्तविक्षिप्तभूमिगतस्य चित्तस्यैकाग्र्यासिद्धेर्न योगस्यैव निष्पत्तिः कथं तत्साध्यं फलं सिध्येदिति भावः । अभ्रमपि भ्रान्तमेव शब्दार्थयोस्तादात्म्यात् । अत्राभ्रस्य भगवद्दिव्यविग्रहसाम्यरूपेष्टानवाप्तिमात्रं श्लेषसङ्कीर्णत्वं पूर्ववदेव । एवमुत्तरत्रापि । यद्यमुखत्वमनिष्टमित्यभिमतं तर्हीष्टानवाप्त्यनिष्टप्राप्तिरूपस्य एतद्विषमप्रभेदस्यैवेदमुदाहरणं भवितुमर्हतीत्यवधेयम् ॥

 यथावा--

 आदौ शतक्रतुमणिस्त्वद्रुचिलाभाय तन्तुसंनाहम् । प्राप्तोऽप्यशकनतोऽमुं मुक्त्वाऽऽसीन्नाथ शक्रमणिरेव ॥ १२६६ ॥

 हे नाथ! शतक्रतुमणिः इन्द्रनीलरत्नं आदौ त्वद्रुचिलाभायतां लब्धुं तन्तोः प्रतिसरसूत्रस्य संन्नाहं बन्धं प्राप्तोऽपि तदर्थं बद्धकङ्कणोऽपीत्यर्थः । सुवर्णादिसूत्रग्रथनं प्राप्त इति तत्त्वम् । तं तवर्णं तुसंनाहं तुवर्णसंबद्धत्वं च प्राप्त इति वस्तुस्थितिः । अशकनतः विवक्षितेप्सितसाधनाशक्तत्वात् अमुं तन्तुसंन्नाहं प्रीत-