पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४२२

पुटमेतत् सुपुष्टितम्
411
विषमालङ्कारसरः (४०)

सरबन्धं मुक्त्वा विसृज्य तं तु संनाहमिति च्छेदः। तुशब्दोऽवधारणे । तं तु तथाविधमेव संनाहं प्राप्तोऽपि अशक्ततया अमुं एवंविधं तं सन्नाहं प्रयत्नमेव मुक्त्वेत्यपि गम्यते । पक्षे तं तकारं तुसंनाहं तुवर्णसंबन्धं च त्यक्त्वा शक्रमणिरेव यथापूर्वमिन्द्रनीलरत्नमेव आसीत् । न तु त्वद्रुचिमलभतेति भावः । पक्षे शतक्रतुमणिशब्दः उपपादितरीत्या तकारतुवर्णयोस्त्यागे शक्रमणिरिति निरपद्यतेत्यर्थः । अत्र शतक्रतुमणेरिष्टालाभमात्रम् । वक्ष्यमाणपूर्वरूपसङ्कीर्णम् ॥

 यथावा--

 हरिसखि रसालसारस्त्वद्वचनसुधात्मनाऽवतरणाय । अधरितशीर्षोपि न तद्विन्देत रसालसार एव स्यात् ॥ १२६७ ॥

 रसालसारः इक्षुरसः सहकारफलरसो वा रासलसार एव स्यात् न तु त्वद्वचनसुधात्मनाऽवतरेदित्यर्थः । रसालसारशब्दो विलोमतया पठितोऽपि तुल्यरूप एवेति तत्त्वम् । अन्यत्सुगमम् । अत्र रसालसारस्य केवलमिष्टानवाप्तिः । इदमपि वक्ष्यमाणपूर्वरूपोपस्कृतमेव ॥

 यथावा--

 विजिगीषु नारिकेलं द्वंद्वप्रथितौ तव स्तनौ तरूणौ । मध्येऽक्षरद्वयधश्च्युन्नलिनेक्षणतरुणि नालमेवासीत् ॥ १२६८ ॥

 हे नलिनेक्षणतरुणि! इदं च वक्ष्यमाणस्तनतारुण्योपस्कारकम, । नारिकेलं नारिकलफलं कर्तु क्लीबमेकमेवेति भावः ।