पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४२३

पुटमेतत् सुपुष्टितम्
412
अलंकारमणिहारे

द्वंद्वप्रथितौ युद्धप्रख्यातौ । युग्मतया प्रसिद्धाविति वस्तुस्थितिः । द्वंद्वमिति प्रथितावितिविग्रहः । 'द्वंद्वं कलहयुग्मयोः' इत्यमरः । तरुणौ वयस्थौ तव स्तनौ पुमांसौ द्वाविति भावः । विजिगीषु स्वपरबलाबलानालोचनेन जयेच्छामात्रं कृतवदिति भावः । मध्ये इष्टलाभेच्छयोरन्तरालं क्षरत् क्षयं प्राप्नुवत् । तत्र हेतुः वयश्च्युदिति । वयसः यौवनरूपाद्वयसः च्यवत इति वयश्च्युत् ‘च्यु च्यवने’ अस्माद्भौवादित्क्विप् तुक् । स्थविरमित्यर्थः । नालमेव असमर्थमेव आसीत् अलं समर्थंनासीदिति वा योजना । नालमात्रावशिष्टमित्यपि गम्यते स्वयं षण्डो वृद्धः क्षीण एकश्च द्वौ युद्धोद्धतौ वयस्थौ वयस्स्थाश्रितौ च विजेतुं कथं शक्नुयादिति भावः । पक्षे नारिकेळं नारिकेळमिति पदं मध्ये अन्तराले अक्षरद्वयश्च्युदिति समस्तं पदम् । अक्षरद्वयं वर्णयुग्मं श्च्योततीति तथोक्तम् । ‘श्च्युतिर् क्षरणे' अस्माद्भौवादिकात्क्विप् । द्रवद्रव्यकर्तृक एवायमकर्मकः स्रवतिवत् । अत्राद्रवद्रव्यकर्तृकत्वेन सकर्मत्वम् । अक्षरद्वयात् श्च्योततीति वा विग्रहः । वर्णद्वयच्युतमित्यर्थः । नालमित्येवासीत् । नारिकेलमिति पदं रि के इति वर्णद्वयविधुरं नालमित्येवावशिष्टमभूदित्यर्थः । अत्र नारिकेलस्येष्टालाभमात्रम् । इष्टस्य परानर्थप्रापणरूपत्वविवक्षायामिदं वक्षमाणप्रभेदस्यैवोदाहरणं भविष्यतीति ध्येयम् ॥

 यथावा--

 ये वैतरण्यतीतेस्तव जननि जना हरिं दिदृक्षन्ते । तान्वैतरण्यतीतेर्दर्शयसि हरिं न जात्विति विचित्रम् ॥ १२६९ ॥