पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४३

पुटमेतत् सुपुष्टितम्
33
श्लेषसरः (२८)

विष्णुशब्द! त्वां, अस्मिन्पक्षे सदा संबुद्धौ इति छेदः । संबुद्धौ ‘एकवचनं संबुद्धिः‌’ इति संकेतिते संबोधनप्रथमैकवचने परत इति शेषः । महर्षिणा पाणिनिना विहितः गुणः यस्य तं 'ह्रस्वस्य गुणः’ इति सूत्रेण संबुद्धौ परतो गुणविधानादिति भावः । सदा विदितवान् आसम् । त्वयि विष्णो इत्यत्रेति भावः । सुप्रत्ययस्य सु इत्याकारकप्रत्ययस्य लोपात् 'एङ् ह्रस्वात्सम्बुद्धेः' इति सूत्रेण संबुद्धिहलो लोपादित्यर्थः । सः सुप्प्रत्ययसकारस्य स इति षष्ठ्येकवचनम् । विसर्जनीयः 'ससजुषोरुः' इति रुत्वानन्तरभावी ‘खरवसानयोर्विसर्जनीयः' इति विहितो विसर्गः दूरे भवति हि । परमस्थानिनस्सकारस्यैव लोपे कानाम तत्स्थानिकरुत्वावलम्बिनी विसर्गकथेति भावः ॥

 यथावा--

 इह विष्वग्देवोऽञ्चतिपरोऽद्रिमग्र्यं श्रितो महादेशम् । अप्रत्ययोऽपि धातुस्तदगश्चायं समन्ततोदृश्यः ॥ ८३८ ॥

 अत्र श्रीनिवासस्य प्रकृतस्य विष्वग्देवशब्दयोरप्रकृतयोश्च श्लेषः । तथाहि-- परो देवः वासुदेवः धातुः ब्रह्मणः अप्रत्ययोपि अनधीनोपि ।

प्रत्ययः प्रथितत्वेSपि सनादिज्ञानयोरपि ।
आचारे शपथे रन्ध्रे विश्वासाधीनहेतुषु ॥

इति मेदिनी । ब्रह्मणा ध्यातुमशक्योपीत्यर्थः । धातुरप्यप्रत्यय

इति वा योजना । अग्र्यं श्रेष्ठं अद्रिं शेषाचलं तस्यैव प्रकृतत्वात् 'एष शेषाचलो नाम गिरीणामुत्तमो गिरिः' इत्युक्तेश्च । महादेशं पूज्यप्रदेशं शेषाचलं नाम दिव्यदेशमित्यर्थः ।

 ALANKARA II
5