पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४३०

पुटमेतत् सुपुष्टितम्
419
विषमालङ्कारसरः (४०)

ताः । मुक्ता भगवन्नभवन्नत्राप्येता महाभयाकलिताः ॥ १२७९ ॥

 मुक्ताः मौक्तिकानि अत्रासाः निर्भयास्सत्यः अन्यत्र मणिदोषविधुरास्सत्यः 'त्रासो भीमणिदोषयोः' इति विश्वः । अत्र निवसामेति तव आस्ये रदात्मना दन्तरूपेण जातास्सत्यः अत्रापि त्वदास्येऽपि एताः मुक्ताः महाभयेन महता त्रासेन आकलिताः । महत्या अभया कलिता इति वस्तुस्थितिः ॥

 यथावा--

 विपदान्वितं भवं त्वं विनेष्यसीति श्रयेमहि भवन्तम् । विपुलयसि तदेव त्वं विचित्रमेतद्वृषाचलद्युमणे ॥ १२८० ॥

 अत्राद्योदाहरणे केवलं मुक्तानां त्रासशब्दप्रतिपाद्यार्थद्वयश्लेषगृहीतभयरूपानिष्टपरिहारलक्षणेष्टात्तवाप्तिर्दर्शिता । द्वितीयोदाहरणे विपदा आपदा अन्वितं भवं संसारं , पक्षे वि इत्याकारकपदेनान्वितं भवं विभवमिति शब्दार्थतादात्म्यमूलकश्लेषमहिम्ना अनिष्टपरिहाररूपेष्टानवाप्तिः प्रकाशिता ॥

 यथावा--

 अरिदरगदाकरत्वं परिहर्तुं त्वां भजन्ति ये मनुजाः । अरिदरगदाकरत्वं । सन्ततमेषां त्वमन्ततस्तनुषे ॥ १२८१ ॥

 अरयः कामादयः दरः भयं तत्प्रयुक्तम् । गदः तत्प्रयुक्तो व्याधिः । तेषामाकरत्वं आश्रयत्वं परिहर्तुं । उत्तरार्धेऽप्येवम् ।