पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४३२

पुटमेतत् सुपुष्टितम्
421
विषमालङ्कारसरः (४०)

 इति महाभारतात् । पक्षे शुभ्रांशुशब्दो विलोमतया पठितोऽपि शुभ्रांशुरित्येव भवन् शुवर्णाद्यत्वं न जहावित्यर्थः । अत्र शुभ्रांशोरनिष्टपरिहाररूपेष्टानवाप्तिः ॥

 यथावा--

 अभितश्शुनाऽभिमृष्टोऽस्म्यहमिति शुभ्रांशुरतितरां भ्रान्तः । तदपनयायानन्ते पतन्नधश्शीर्षमपि तथैवाभूत् ॥ १२८३ ॥

 शुभ्रांशुः अभितः सर्वतः उभयतश्च शुना शुनकेन शुवर्णेन च अभिमृष्टः स्पृष्टः अस्मीति अतितरां भ्रान्तः भ्रान्तिमान् । पक्षे भ्रः भ्र इति वर्णसमुदयः अन्ते मध्ये यस्य स तथोक्तः । तदपनयाय तस्य अभितश्शुना स्पृष्टत्वभ्रमस्यापनोदनाय अनन्ते भगवति अन्तरिक्षे च अधश्शीर्षं पतन्नपि विलोमतया स्थितोऽपीति च तथैवाभूत् भ्रान्त एवाभूत् पक्षे शुभ्रांशुरित्येवाभूत् । न त्वन्यधा । अत्र शुभ्रांशोः पूर्ववदेवेष्टानवाप्तिः ॥

 यथावा--

 सुतरांशुमयोऽप्यादावन्ते च तवाननश्रियमलब्ध्वा । क्लान्तस्थितिमैन्न जहौ शुक्लांशुरधश्शिरः पतन्नपि ताम् ॥ १२८४ ॥

 हे भगवन्! शुक्लांशुः सितकरः आदौ मासादौ अन्ते मासान्ते च । इदं पूर्णिमाद्यन्तमासाभिप्रायोणोक्तम् । सुतराश्च ते अंशवश्च तन्मयोऽपि प्राचुर्ये मयट् । तव आननश्रियं अलब्ध्वा क्लान्तस्थितिं ग्लानस्थितिं ग्लानिमित्यर्थः । ऐत् अगात् । अथ अधश्शिरः पतन्नपि तां न जहौ ग्लानिस्थितिं नात्याक्षीत् । पक्षे