पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४३३

पुटमेतत् सुपुष्टितम्
422
अलंकारमणिहारे

शुक्लांशुशब्दः सुतरां अतितरां आदावन्ते च शुमयः शुवर्णप्रचुरः आद्यन्तयोः शुवर्णस्यैव जागरूकत्वादिति भावः । अधश्शिरः निपतितोऽपि व्यत्यस्ततया स्थितोऽपीति यावत् । क्ला इति वर्णसमुदायस्य अन्तस्थितिं मध्ये सत्तां न जहौ । तस्य वैपरीत्येऽपि तादवस्थ्यादिति भावः । अत्रापि पूर्ववदेव सर्वम् ॥

 यथावा--

 त्वां स्तोता सकलकविः स्तोता तु परस्य विकलकविरेव । अधरितशीर्षोऽपि भवन्विकलकविस्स्यादयं न सकलकविः ॥ १२८५ ॥

 सकलकविः संपूर्णकविः महाकविरित्यर्थः । विकलकविः क्षुद्रकविः । अत्र विकलकवेस्स्वानर्थपरिहाररूपेष्टालाभः ॥

 यथावा--

 त्वत्तेजोऽभिहतौजानुभङ्गभाग्भानुभास्सती भाभाः । स्याद्यदि पुनः प्रसव्या यथापुरं स्यान्न तु त्वदोजोभाः ॥ १२८६ ॥

 हे भगवन् ! भानुभाः भास्वत्प्रभा । त्वत्तेजस्तौल्यलिप्सुरिति सामर्थ्यादवगम्यते । त्वत्तेजोऽभिहतौ सत्यां त्वत्प्रतापकर्तृकाभिहनने सति जानुभङ्गभाक् जानुनीः ऊरुपर्वणोः भङ्गं अवमर्दं भजतीति तथोक्ता भग्नजानुस्सतीत्यर्थः। अत एव भाभाः नभासत इत्यभाः । भासतेः क्विप् । भया प्रभया अभाः भाभाः। नभातीति विग्रहे भातेः क्विप् । विश्वपाशब्दवदादन्तः । उभयथाऽपि प्रभया अप्रकाशमानेत्यर्थः । यद्वा भं नक्षत्रमिव आ ईषत् भासत इति भातीति वा भाभाः आदौ महाप्रकाशा जानुभङ्गा-