पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४३४

पुटमेतत् सुपुष्टितम्
423
विषमालंकारसरः (४०)

नन्तरमल्पतरप्रकाशेत्यर्थः । पक्षे भानुभा इति शब्दव्यक्तिः त्वत्तेजोऽभिहतौजाः नुभङ्गमिति छेदः । तव तेजसा अभिहतं ओजः बलं अवष्टम्भः प्रभावो वा यस्यास्सा तथोक्ता 'ओजो दीप्ताववष्टम्भे प्रभावबलयोरपि' इति मेदिनी । नुभङ्गभाक् नुवर्णभ्रंशं प्राप्ता अत एव भाभास्सती भाभा इति निष्पन्ना सती पुनः आदौ उक्तरीत्या परिभवे सत्यपीति भावः । प्रसव्या प्राप्तानिष्टपरिहारपूर्वकं त्वत्तेजस्तौल्यलाभाय तस्य प्रतिकूला अनुकूला वा यदि स्यात् ‘प्रसव्यं वाच्यलिङ्गं स्यात् प्रतिकूलानुकूलयोः' इति मेदिनी । तदाऽपि यथापुरमेव स्यात् भाभा एव स्यात् अप्रकाशप्रभावा अत्यल्पप्रकाशा वा भवेत् । न तु त्वदोज इव भातीति त्वदोजोभाः स्यात् पक्षे भाभा इति निष्पन्ना भानुभाशब्दव्यक्तिः प्रसव्या अनुलोमा प्रतिलोमा वा भाभा इत्येव स्यात् न तु त्वदोजोभा इत्यानुपूर्वीयुतेत्यर्थः । यदि पुनः प्रसव्या स्यादित्यनेन भानुभासः पराहतेः पूर्वमपि प्रसव्यत्वेऽपि यथापूर्वावस्थावस्थितत्वमेवेति गम्यते । एवं शब्दरूपार्थपक्षेऽपि, भानुभाशब्दस्यापि भाभाशब्दस्येवानुलोमप्रतिलोमावस्थयोस्तुल्यरूपत्वात् । अत्र भानुभासः प्राप्तभाभारूपानर्थनिवारणलक्षणेष्टानवाप्तिमात्रम् । तच्च तस्याः भगवत्तेजस्तौल्यरूपेष्टालाभपूर्वकजानुभङ्गाद्यनिष्टलाभलक्षणप्रागुक्तैतद्विषमप्रभेदेन दत्तहस्तमिति पूर्वापेक्षया विशेषः ॥

 यथावा--

 यत्त्वद्गमनं प्रैप्सत्तदगत्वा देवदेव गजराजः । प्राप्य जराजत्वमधश्शीर्षोऽपि ततो जराजतां न जहौ ॥ १२८७ ॥