पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४३५

पुटमेतत् सुपुष्टितम्
424
अलङ्कारमणिहारे

 हे देवदेव! गजराजः यत् त्वद्गमनं त्वद्गमनतुल्यगमनमित्यर्थः । प्रैप्सत् प्राप्तुमैच्छत् यत् त्वद्गमनं अगत्वा अप्राप्य । यद्वा तदगत्वात् एव देवेति च्छेदः । हे देव न गच्छतीत्यगः । तस्य अगः तदगः तस्य भावः तदगत्वं तस्मादेव त्वद्गमनाप्राप्तेरेवेत्यर्थ । जराजत्वं जरान्वितच्छागत्वं, यद्वा जीर्यतीति जरः पचाद्यच् । स चासावजः जीर्णच्छागः तत्वं गमनसौन्दर्यशक्तिवैकल्येन तत्तौल्यमिति यावत् । प्राप्य, पक्षे गजराजशब्दः अगत्वात् गकाररहितत्वात् जराजत्वं जराजशब्दत्वं प्राप्येत्यर्थः । ततः अधश्शीर्षोऽपीति लोकोक्तिः । पक्षे वैपरीत्यं प्राप्तोऽपि जराजतां उभयथाऽपि जराजत्वं न जहौ । जराज इत्येवासीत् । न तु तां पर्यहार्षीदिति भावः । अत्र गजराजस्य प्राप्तजराजत्वरूपानिष्टपरिहारलक्षणेष्टानवाप्तिमात्रं प्राधान्येन प्रतिपाद्यते । भगवद्गमनतौल्यरूपेष्टानवाप्तिपूर्वकजराजत्वरूपानिष्टप्राप्तिलक्षणैतद्विषमविशेषस्त्वङ्गतयेति पूर्वोदाहरणवदेव सर्वम् ॥

 यथावा--

 त्वद्यशसा धुत इन्दुस्स्वसुहृदमिनमाप सोऽपि तव महसा । विधुतस्तमेनमौज्झीदिनोज्झितोऽभवदयं च दुस्थितिमान् ॥ १२८८ ॥

 हे भगवन्! इन्दुः त्वद्यशसा धुतस्सन् स्वसुहृदं स्वमित्रं इनं कंचन राजानं आप । स्वानर्थपरिहारायेति भावः । पक्षे इनं भानुं तस्य तत्सुह्रत्त्वं ज्योतिश्शास्त्रप्रसिद्धम् । आप । अपचितकलस्तदुपचयाय दर्शे रविमण्डलमासादितवानित्यर्थः । सोऽपि स राजाऽपि स भानुरपि तव महसा ‘दिवि सूर्यसहस्रस्य' इत्युक्तप्रकारेण तेजसा विधुतः विशेषेण कम्पितः तमेनं स्व-