पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४३६

पुटमेतत् सुपुष्टितम्
425
विषमालङ्कारसरः (४०)

स्याप्यनिष्टहेतुभूतमिन्दुं औज्झीत् व्यस्राक्षीत् । शुक्लपक्षादौ रविमण्डलादस्य विश्लेषः प्रसिद्ध एवेति भावः । इनोज्झितः इनेन तेन राज्ञा भानुना च उज्झितः स्वानिष्टहेतुरयमिति विसृष्टः अयं इन्दुश्च दुस्थितिमान् दुरवस्थावान् अभूत् । वस्तुतस्तु इन्दुशब्दः इना इन् इति वर्णसमुदयेन उज्झितः दुस्थितिमान् दुरिति वर्णसमुदयस्थितिमान् अभूदित्यर्थः । अत्र न केवलमिन्दोस्स्वानर्थपरिहाररूपेष्टानवाप्तिः, किन्तु स्वाश्रयस्याप्यनर्थप्राप्तिरिति विशेषः ॥

 यथावा--

 अतिघोरं निस्सारं संसारं दूरमुज्झितुमपारम् । उद्युञ्जे पुरुषोत्तम कुरुषे करुणां कुतो न सादरणाम् ॥ १२८९ ॥

 उद्युञ्जे उद्युक्तोऽस्मि । उत्पूर्वकाद्युजेः रौधादिकात्कर्तरि लडुत्तमपुरुषैकवचनम् । अत्रार्तस्य भगवत्प्रपन्नस्य संसाररूपानर्थपरिहारलक्षणेष्टानवाप्तिमात्रम् । इदं शुद्धमुदाहरणम् । प्राचीनानि तु श्लेषादिसंकीर्णानीति विशेषः ॥

 परानिष्टप्रापणरूपेष्टानवाप्तिर्यथा--

 भीष्मं त्वां धृतचक्रं भीष्मं हन्तुं द्रवन्तमत्यन्तम् । पार्थस्सरभसमरुणत्सार्थां संधां च वीक्ष्य स ननन्द ॥ १२९० ॥

 भीष्मं दारुणं यथास्यात्तथा भीष्मं शान्तनवं हन्तुं धृतचक्रं अत्यन्तं द्रवन्तम् । स च भीष्मश्च संधां ‘अशस्त्रग्रहणं

 ALANKARA II
54