पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४३७

पुटमेतत् सुपुष्टितम्
426
अलंकारमणिहारे

प्रतिश्रुतवन्तं भगवन्तं शस्त्रं ग्राहयिष्याम्येव’ इति स्वकृतां प्रतिज्ञां सार्थां भगवत्कृतचक्रग्रहणेन सफलां वीक्ष्य ननन्द । अत्र भगवतो भीष्महननरूपपरानिष्टप्रापणलक्षणेष्टानवाप्तिर्निबद्धा । अत्रैव भीष्मस्य स्वप्रतिज्ञानिर्वहणरूपसुखसाधनार्थप्राप्तिः वधरूपदुःखसाधनानर्थनाशः, भगवतश्च स्वप्रतिज्ञाभङ्गरूपदुःखसाधनानर्थप्राप्तिश्च निबद्धेति सूक्ष्मया दृशाऽवधातव्यम् ॥

 यथावा--

 निशिचरवधूकदम्बं मदम्ब हन्तुमपि यतनवान् हनुमान् । करुणतमतावकवचस्सरणिगतिप्रतिहताभिलषितोऽभूत् ॥ १२९१ ॥

 निशिचरवध्वः एकाक्ष्येककर्ण्यादिकाः तासां कदम्बं हन्तुं रावणवधानन्तरं त्वत्समाश्वासनावसर इति भावः । यथोच्यते श्रीमति रामायणे हनूमता--

इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे ।
हन्तुमिच्छाम्यहं सर्वा याभिस्त्वं तर्जिता पुरा ॥

इत्यादि । करुणतमतावकवचसां--

पापानां वा शुभानां वा वधार्हाणां प्लवङ्गम ।
कार्यं करुणमार्येण न कश्चिन्नापराध्यति ॥

इत्यादिवचननाम् । स्पष्टमन्यत् । अत्रापि हनूमतो रक्षस्स्त्रीहननलक्षणपरानिष्टप्रापणरूपेष्टानवाप्तिः ॥

 यथावा--

 यत्पदमियात्त्वदीयश्श्रीदश्रीर्धीरधीः प्रदीप्रश्च । तत्पदविपर्ययाय प्रभवेत्को वा कृतप्रयत्नोऽपि ॥