पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४४२

पुटमेतत् सुपुष्टितम्
431
विषमालङ्कारसरः (४०)

 हे श्रीश! सः शैत्यसौरभादिभिः प्रसिद्धः घनसारः कर्पूरः 'अथ कर्पूरमस्त्रियाम् । घनसारः' इत्यमरः । तव पादस्य या सरित् गङ्गा तस्याः अभिख्या नाम शोभा च । ‘अभिख्या नाम शोभयोः' इत्यमरः । तस्याः लाभाय अधश्शिराः तव पादे नम्रशिरा इत्यर्थः । रसेन जलेन अनघः भूत्वाऽपि । अनेन भगवत्पादसरिदभिख्यालाभौपयिकता दर्शिता । घनसारशब्दो विलोमतया पठितो रसानघ इति निष्पन्न इति वस्तुस्थितिः । शब्दार्थयोस्तादात्म्यं न विस्मर्तव्यम् । श्रीपादस्य लक्ष्मीचरणस्य रेणुः पांसुरिति नाम यस्य स तथोक्तः अभूत् । भगवच्चरणसरिदभिख्यालाभाय पावनतीर्थरूपतायाः कथंचित्संपादनेऽपि तल्लाभो नाभूच्चेन्माभूत्, श्रीपादसरिदभिख्याऽपि वा नासीत्, प्रत्युत श्रीपादरेणुनामासीदिति निर्गळितोऽर्थः । श्रीवेङ्कटाद्रौ भगवद्दिव्यविग्रहार्पितो घनसारश्रीपादरेणुरिति व्यवहृतो भवतीति तत्त्वम् । अत्र घनसारस्य भगवत्पादसरिदभिख्यारूपेष्टालाभमात्रं, श्रीपादरेणुत्वं तु नोत्कटानिष्टं, येनैतत्पद्यं एतत्तृतीयविषमप्राथमिकभेदस्योदाहरणं स्यात्, किन्त्वनभीप्सितमिति ध्येयम् ॥

 यथावा--

 त्वल्लक्ष्म्या अप्यतसी श्रैष्ठ्येप्सातच्च्युता तुलाप्त्यैव । धन्या तुलसीभूयं गतैव तेऽम्बुधिसुतेश हृद्याऽऽसीत् ॥ १२९९ ॥

 हे अम्बुधिसुतेश ! अतसी क्षुमाकुसुमं 'अतसी स्यादुमा क्षुमा' त्यमरः । ‘पुष्पमूलेषु बहुळम्' इति वैकारिकाणो लुप् । त्वल्लक्ष्म्या अपि त्वत्प्रभाया अपि । त्वदीयायाः श्रीदेव्या अपीत्यर्थोऽप्युपस्कार्यः । श्रेष्ठ्ये प्रशस्यतमत्वे ईप्सा यस्यास्सा त-