पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४४५

पुटमेतत् सुपुष्टितम्
434
अलंङ्कारमणिहारे

श्रेष्ठा, भवस्याभावोऽभवं अर्थाभावेऽव्ययीभावः, न भवः अभव इति तत्पुरुषो वा, तस्य प्राप्तिः निश्श्रेयसप्राप्तिरित्यर्थः । यद्वा हे परेति भगवतस्संबोधनम् । अभवप्राप्तिः उक्त एवार्थः, इति परिहारः । अत्र

विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम् ।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥

इति श्लोकार्थोऽनुसंहितः । अत्र पराभवप्राप्तिरिति श्लेषेणैव अनिष्टप्राप्तिरिष्टाप्राप्तिर्वा निबद्धा, न तु वस्तुसिद्धा ॥

 यथावा--

 चक्रतुलेप्सुरवाग्रा भवतः कौमुदकी तदप्राप्त्या । नाथ विमोदा कौकी भूत्वा तदभिधखगानुबन्धमगात् ॥ १३०३ ॥

 हे नाथ भगवन्! भवतः कौमोदकी गदा चक्रस्य सुदर्शनस्य तुलां ईप्सुः अत एव अवाग्रा अवनता । ‘अवाग्रेऽवनतानतम्' इत्यमरः । तत्साम्यलाभार्थं नम्रतया कृततदुपसर्पणेति भावः । तदप्राप्त्या विमोदा विगलितमोदा सती । यद्वा तदप्राप्त्या अवाग्रेति योजना । तदलाभप्रयुक्तसंकोचेन नम्रशिरा इत्यर्थः । वस्तुस्तः कौमोदक्याः भगवद्वामपाणिना अवाक्छिखरतयैव धृतत्वस्य दर्शनात्तथोक्तिः । कोकस्येयं कौकी ‘तस्येदम्’ इत्यणि 'टिढ्ढ, इति ङीप्, भूत्वा । पक्षे कौमोदकीति शब्दव्यक्तिः मोदेति वर्णद्वयविगमे कौकीति सिद्धेत्यर्थः । तस्य चक्रस्य अभिधा नाम यस्य सः तथोक्तः खगः पक्षी चक्रवाक इत्यर्थः । यथाऽनुशिष्यते 'कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः’ इति । तस्य अ-