पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४४६

पुटमेतत् सुपुष्टितम्
435
विषमालङ्कारसरः (४०)

नुबन्धितां संबन्धं अगात्, कौकीत्वप्राप्तेरिति भावः । अत्र कौमोदक्याः कौकीत्वलक्षणानिष्टप्राप्तिः श्लेषेणैव, न तु वस्तुतः ॥

 यथावा--

 प्राक्तनपङ्कमशेषं त्वं शोषयितुं हरेर्भजसि पादम् । तस्मात्कीर्तिरुदेष्यति नव्येति सखे पुनर्न जानीषे ॥ २३०४ ॥

 हे सखे! इति यंकंचित्सुहृदं प्रति संबोधनम् । अशेषं निश्शेषं यथास्यात्तथा प्राक्तनपङ्कं पूर्वाघं प्राचीनकर्दमं च शोषयितुं निराकर्तुं शुष्कं कर्तुं च, हरेः भगवतः भानोश्च, पादं चरणं किरणं च भजसि प्रीतिपूर्वकमनुध्यासि सेवसे च । तस्मात् तद्भजनात् कीर्तिः ‘यशोऽहं भवामि ब्राह्मणानाम्' इत्यादिश्रुत्युक्तप्रकारेण यशस्साधनभूतं परं ब्रह्म उदेष्यति दर्शनसमानाकारध्यानगोः चरतां प्रपत्स्यते । पुनः न व्येति व्ययं न प्राप्नोति न क्षरतीत्यर्थः । यद्वा कीर्तिः ब्रह्मवित्त्वप्रथा उदेष्यति जनिष्यते । पुनन व्येति नापचीयत इत्यर्थः। पक्षे नव्या अभिनवा कीर्तिः कर्दमः पुनः उदेष्यति इति न जानीषे । अत्र प्राक्तनाशेषपङ्कशोषणाय हरिपादं भजमानस्य तल्लाभसद्भावेऽपि अपूर्वकर्दमरूपानिष्टप्राप्तिश्च श्लेषेणैव निबद्धा ॥

 यथावा--

 नित्यभवभ्रमिखन्नोऽस्म्यभ्रान्तः क्वचन हरिपदे सततं स्याम् । इति कृतयतनोऽपि हरे प्रावृषि केवलमविन्दतेप्सितमिन्दुः ॥ १३०५ ॥