पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४४९

पुटमेतत् सुपुष्टितम्
438
अलंकारमणिहारे

इत्युक्तसंकल्पविशेषैर्वा स्वतः स्वभावत एव भुवनं लोकं, जात्यभिप्रायकमेकवचनं, वर्धयसे सृष्टिपूर्वकं समेधयसे । तव ईदृशस्य भवतः श्रीः संपत्तिः सर्वलोकेश्वरत्वरूपा कैः जनैः अवमता अवहेळिता, न कैरपीति भावः । पक्षे विबुधाग्र सरस्वतः इति च्छेदः । हे विबुधाग्र देवश्रेष्ठ! 'परार्थ्याग्रप्राग्रसरप्राग्र्या ग्र्याग्रीयमग्रियम्' इत्यमरः । आलोकैः प्रकाशैः स्वकिरणैरित्यर्थः। सरस्वतः सागरस्य भुवनं जलं अभिवर्धयसे उत्सेचयसे । तव श्रीः शोभा कैरवमता कैरवाणां कुमुदानां मता अभिमता । अतः त्वं विधुः चन्द्रः असीति उचितमेव मन्ये । विधुः भगवानिति तु तत्त्वम् ॥

 यथावा--

 भूयस्सु भूषणेष्वपि कलयसि कमलेश काञ्चिकां मध्ये । मध्यस्थतोचिताऽस्याः प्रतीपवचनेऽपि न विकृता यदियम् ॥ १३०८ ॥

 यत् यस्मात् कारणात् इयं काञ्चिका प्रतीपवचनेऽपि स्वप्रतिकूलभाषणेऽपि न विकृता अविकृतस्वभावा न्यायैकदृष्टितया स्वाभीप्सितविरुद्धभाषणेऽपि चित्तविकारं नैतीति भावः । अस्याः एवंविधाया मध्यस्थता मध्ये न्याय्येऽर्थे तिष्ठतीति मध्यस्थं तस्य भावः मध्यस्थता ‘शरदः कृतार्थता’ इत्यादाविव सामान्ये नपुंसकमित्यसकृदवोचाम । न्याय्यमार्गवर्तित्वमित्यर्थः । 'न्याय्येऽपि मध्यम्' इत्यमरः । 'अस्त्री मध्यं समे न्याय्येऽप्यवकाशावलग्नयोः' इति रत्नमाला च । पक्षे काञ्चिकाशब्दः प्रतिकूलतया पाठेऽप्यविकृतानुपूर्वीको भवतीत्यर्थः । अस्याः काञ्चिकायाः