पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४५

पुटमेतत् सुपुष्टितम्
35
श्लेषसरः (२८)

योश्च टेरद्र्यञ्चतावप्रत्यये’ इति सूत्रार्थ उपपादितप्रकारेणानुसन्धेयशब्दविद्यानिष्णातैरित्यलम् । यद्वा-- समं ततः अदृश्य इति त्रिधा छेदः । ततः अद्र्यादेशादनन्तरं तत् तस्मात् अद्र्यादेशादेव हेतोः अयं प्रकृतविष्वग्देवशब्दयोर्विद्यमानः अक् अश्च उक्त एवार्थः। समं तुल्यं यथा स्यात्तथा अदृश्यः । द्वयोरप्यनयोश्शब्दयोष्टेरद्र्यादेशेन अकः अस्य चापहाराददर्शनमनयोस्तुल्यमेवेति भावः । अथवा तत् उक्तादेव हेतोः ततः सार्वविभक्तिकस्सप्तम्यास्तसिः । तयोः विष्वग्देवशब्दयोरित्यर्थः । अयं बुद्धिस्थः अक् अश्च समं तुल्यं अदृश्य इति ॥

 यथावा--

 लक्ष्म्यास्सख्युः पत्युर्युक्तं प्रथतेघितागुणाभावः । इदमपि युक्तं विद्मो यद्भविताप्रत्ययस्य नाभावः ॥ ८३९ ॥

 अत्र प्रस्तुतस्य भगवतः अप्रस्तुतानां लक्ष्मीसखिपतिशब्दानां च श्लेषः । तथाहि-- लक्ष्म्याः सख्युः सुहृद्भूतस्य अनेनानुरागपरिपूर्णता द्योतिता । पत्युः भर्तुः श्रीनिवासस्य अयं च श्रीपतित्वेन निर्देशः अनुपदविवक्षिताया उभयलिङ्गतायास्तदेकाश्रयत्वं व्यञ्जयितुम् । अत एव हि ‘श्रियःपतिर्निखिलहेयप्रत्यनीककल्याणैकतानः' इत्यभाषि भगवद्भाष्यकारैः। अघमस्यास्तीत्यघी तस्य भावः अघिता । सा चासौ गुणश्व आघितागुणः, तस्याभावः प्रथते प्रसिद्ध्यतीति युक्तम् । 'स एष सर्वेभ्यः पाप्मभ्य उदितः । एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एका नारायणः' इत्यादिश्रवणात् । प्रत्ययस्य ज्ञानस्य उपलक्षणमिदं शक्तिबलैश्वर्यादीनामपि । न अभावः इति छेदः । अभावः न