पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४५५

पुटमेतत् सुपुष्टितम्
444
अलङ्कारमणिहारे

नस्याधिपत्नी, अस्येशाना जगतो विष्णुपत्नी' इत्यादिश्रुतेः । तदिदं युवयोरधीश्वरत्वं अनुरूपम् । उभयोरधिभूत्वे हेतुमाह-- प्रायेणेत्यादिना । यत् यस्मात् पौंस्ने पुंसमूहे स्त्रैणे स्त्रीसमूहे च विभक्तावपि--

देवतिर्यङ्मनुष्येषु पुन्नामा भगवान् हरिः ।
स्त्रीनाम्नी लक्ष्मीर्मैत्रेय नावयोर्विद्यते परम् ॥
यो यो भवति पुंभाचस्स विष्णोरिति निश्चयः ।
य यस्तु नारीभावस्स्यात्तत्र लक्ष्मीर्व्यवस्थिता ॥

इति वैष्णवब्राह्मपुराणाद्युक्तरीत्या परस्परेच्छाविशेषेण कृतविभागावपि ऐकरूप्यजुषौ जगद्व्याप्त्यादिलक्षणस्वभावैक्यभाजौ,

मया यथा जगद्व्याप्तं स्वरूपेण स्वभावतः ।
तया व्याप्तमिदं सर्वं नियन्त्री च तथेश्वरी ॥
मया व्याप्ता तथा साऽपि तया व्याप्तोऽहमीश्वरः ।

इति विष्वक्सेनसंहिताद्युक्तेः । प्रायेणेत्युक्त्या--

मम तस्याश्च सेनेश वैलक्षण्यमिदं श्रुणु ।
मच्छेषभूता सर्वेषामीश्वरी वल्लभा मम ॥
तस्याश्च जगतश्चाहमीश्वरो वेदविश्रुतः ।

इत्याद्युक्तं किंचिद्वैलक्षण्यमस्तीति सूचितम् । अतो युवयोरधिभूत्वमनुरूपमेवेति । पक्षे अधिभूशब्दावुभावपि पौंस्ने पुंस्त्वे स्त्रैणे स्त्रीत्वे च 'स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्' इत्यपत्यादिभवनाधिकारपर्यन्तमुक्तेष्वर्थेषु नञस्नञोर्विधानात्समूहार्थे भावार्थे च पुंशब्दात् स्नञ्, स्त्रीशब्दान्नञ् च प्रत्ययः । विभक्तौ स्वादिविभक्तौ परत इति शब्दशास्त्रमर्यादालभ्यं, प्रायेण भूम्ना ऐकरूप्यजुषौ तयोश्शब्दयोः पुल्लिङ्गस्त्रीलिङ्गयोरैकरूप्यस्य दर्शनादिति भावः ।