पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४५६

पुटमेतत् सुपुष्टितम्
445
समालंकारसरः (४१)

स्त्रीलिङ्गे ङिति आमि च विभक्तौ रूपान्तरस्यापि विधानात्प्रायेणेत्युक्तम् । तस्मात्पुंस्त्रीवाचकयोरुभयोरप्यधिभूशब्दयोरानुरूप्यमिति ॥

 यथावा--

 यद्यादिदेव सत्वं हृद्याविर्भावभाक्परं सुकृतात् । विद्याम तदा सत्त्वं हृद्याविर्भावभागिति स्थाने ॥

 हे आदिदेव ! अखिलजगत्कारणभूत भगवन् ! अनेन ‘आदिदेवो महाबाहुर्हरिर्नारायणः प्रभुः’ इत्येतत् स्मारितम् । सुकृतात् यादृच्छिकप्रासङ्गिकानुषङ्गिकभेदभिदुरात्सुकृतविशेषात् परं श्रेष्ठं सत्वं सत्वगुणः हृदि मनसि अविर्भावभाग्यदि आविर्भूतं चेत् आहारशुद्धिमूलकसत्त्वगुणलाभेन चित्तशुद्धिर्भवेच्चेदिति भावः । तदा सः सकलजगत्कारणत्वनियन्तृत्वादिना प्रसिद्धः त्वं हृदि चित्ते अविर्भावभाक् । यद्वा हृद्यः हृदयस्य प्रियः यः अविर्भावः तं भजतीति तथोक्तः । दर्शनसमानाकारध्रुवानुस्मृतिरूपध्यानगोचरो भवसीति स्थाने युक्तं विद्याम जानीयाम । विदेर्लिङुत्तमबहुवचनम् । अत्र ‘आहारशुद्धौ सत्त्वश्रुद्धिस्सत्त्वशुद्धौ ध्रुवा स्मृतिः’ इति श्रुत्यर्थच्छायाऽनुस्मृता । अत्र सत्त्वशुद्धिभगवदाविर्भावयोरनुरूपयोर्वर्णनम् ॥

 यथावा--

 वृषगोत्रशेखरं त्वामुषसि स्मरतां हरेऽच्युतात्मवताम् । भद्रत्वं चोक्षत्वं प्राप्यं यद्भवति तदिदमनुरूपम् ॥ १३१७ ॥

 हे हरे ! इदं च संबोधनं वक्ष्यमाणप्रत्यूषस्मरणानुगुण्याय । ‘उत्तिष्ठंश्चिन्तय हरिम्' इति स्मरणाम् । अनेनैवास्य वक्ष्यमाणभद्रत्वप्रापणानुकूलं मङ्गळत्वमपि द्योतितम् ।